Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, ११ जूनमासः (हि.स.)। उन्नतगणन-विद्यायाः विकासाय केन्द्रम्, पटना तथा सरला-बिरला-विश्वविद्यालयस्य मध्ये कृत्रिम-बुद्धिमत्ता, साइबर-सुरक्षा, उन्नत-गणनम् तथा क्वान्टम-गणनम् इत्यादिषु अत्याधुनिक-प्रौद्योगिकी-क्षेत्रेषु सहयोगाय सहमतिः अभवत्।
अस्मिन् सम्बन्धे गुरुवासरे विश्वविद्यालय-परिसरे आयोजितायां सभायां कुलपतिः प्रो. सी.जगनाथन्, कुलसचिवः प्रो.श्रीधर-दाण्डिनः, तथा सी-डैक-संस्थायाः केन्द्र-प्रमुखः अभिनव-दिक्षितः साकेत-कुमार-झा च परस्परं चर्चा कृतवन्तः।
सभायां उभयसंस्थाभ्यां तकनीकी-शिक्षायाः, अनुसन्धानस्य तथा नवाचारस्य प्रवर्धनाय संयुक्त-प्रयत्नेषु सहमति: व्यक्ता। अस्य सहकारस्य अन्तर्गतं विद्यार्थिनः उन्नत-प्रौद्योगिकीनां प्रशिक्षणं, अनुसन्धान-परियोजनाः तथा कौशल-विकासस्य नवीनाः अवसराः लप्स्यन्ते।
तथा च सी-डैक-संस्थायाः विभिन्न-केन्द्राणां माध्यमेन छात्रेभ्यः व्यावहारिक-प्रशिक्षणं उद्योगोन्मुख-अनुभवश्च अपि प्रदास्यते।
विश्वविद्यालय-प्रबन्धनं एतं प्रयत्नं विद्यार्थिनां भविष्याय संस्थानस्य शैक्षणिक-विकासाय च महत्त्वपूर्णम् इति उक्तवन्तः। प्रतिकुलाधिपतिः बिजय-कुमार-दलानः, महानिदेशकः प्रो.गोपाल-पाठकः तथा राज्यसभा-सांसदः इत्यनेन सह निदेशकः (योजना-उन्नयन-विभागः) डॉ.प्रदीप-कुमार-वर्मा च विश्वासं प्रकटितवन्तः यत् एषा साझेदारी तकनीकी-शिक्षायाः, अनुसन्धानस्य नवाचारस्य च क्षेत्रे नूतनान् आयामान् स्थापयिष्यति तथा छात्राणां रोजगार-क्षमतां सुदृढां करिष्यति।
Hindusthan Samachar / Divya Ranjan