विदिशानगरे १४ जूनमासे कृषि-विज्ञान-केन्द्रस्य आधारशिला स्थापिता भविष्यति
नवदेहली, ११ जूनमासः (हि.स.)। मध्यप्रदेशस्य विदिशानगरे १४ जूनमासे कृषि-विज्ञान-केन्द्रस्य आधारशिला स्थापिता भविष्यति। एतत् केन्द्रं कृषि-क्षेत्रे आदर्श-प्रतिमानरूपेण विकसितं भविष्यति। अस्य केन्द्रस्य निर्माणेन क्षेत्रस्य कृषकाः वैज्ञानिक-पद्धत्या कृ
वीडियो सन्देश जारी करते केंद्रीय मंत्री शिवराज सिंह चौहान


नवदेहली, ११ जूनमासः (हि.स.)। मध्यप्रदेशस्य विदिशानगरे १४ जूनमासे कृषि-विज्ञान-केन्द्रस्य आधारशिला स्थापिता भविष्यति। एतत् केन्द्रं कृषि-क्षेत्रे आदर्श-प्रतिमानरूपेण विकसितं भविष्यति। अस्य केन्द्रस्य निर्माणेन क्षेत्रस्य कृषकाः वैज्ञानिक-पद्धत्या कृषिकर्मणः परामर्शं, सर्वकारीय-योजनानां सूचनाः तथा तासां लाभं प्राप्तुं समर्थाः भविष्यन्ति।

गुरुवासरे दृश्य-सन्देशं प्रसारयन् केन्द्रीय-मन्त्री शिवराजसिंह-चौहानः अवदत् यत् १४ जून-दिनाङ्कः विदिशा-सांसदीय-क्षेत्रस्य कृषेः कृषकाणां च कृते ऐतिहासिकः दिवसः भविष्यति। १४ जून-दिनाङ्के प्रातः १० वादने विदिशा-जनपदस्य बेरखेड़ी-जट्टू-ग्रामे कृषि-विज्ञान-केन्द्रस्य शिलान्यासः करिष्यते। एषः कृषि-विज्ञान-केन्द्रं भारतस्य आदर्श-कृषि-विज्ञान-केन्द्ररूपेण विकसितं भविष्यति।

तेन उक्तं यत् अस्मिन् कार्यक्रमे विदिशा, रायसेन, सीहोर तथा देवास-जनपदानां कृते निर्मितस्य वैज्ञानिक-कृषि-मार्गचित्रस्य क्रियान्वयन-कार्यं प्रारभ्यते। चौहानः अवदत् यत् ‘खेत-बचाओ-अभियानस्य’ अन्तर्गतं कृषकेभ्यः महत्त्वपूर्णा सूचना अपि प्रदास्यते।

कृत्रिम-उर्वरकाणां परिचयः, तेषां दुष्प्रभावेभ्यः रक्षणोपायाः, आधुनिक-कृषि-यन्त्रैः बीज-वपनम्, आधुनिक-कृषि-पद्धतीनां प्रदर्शनम्, यन्त्राणां प्रदर्शिनी, विविध-प्रदर्शनिकाः तथा शिक्षणार्थं बहवः अवसराः अपि उपलब्धाः भविष्यन्ति। तेन कृषकान् आहूतं यत् ते कृषिं समयानुकूलां कर्तुं अस्मिन् कार्यक्रमे उपस्थित्य विशेषज्ञ-परामर्शं गृह्णन्तु।

Hindusthan Samachar / Divya Ranjan