Enter your Email Address to subscribe to our newsletters





लखनऊ, 11 जूनमासः (हि.स.)। केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूष गोयल गुरुवासरे लखनऊनगरे उक्तवान् यत् उत्तरप्रदेशस्य जनाः आगामिनिर्वाचनेषु पुनः एकवारं प्रधानमन्त्रिणं नरेन्द्र मोदिनं मुख्यमन्त्रिणं योगी आदित्यनाथं च आशीर्वादं दास्यन्ति। तेन उक्तं यत् विगतद्वादशवर्षीयकार्यकाले प्रधानमन्त्री मोदी देशं विकसितं आत्मनिर्भरं च भारतं निर्मातुं अनेकानि ऐतिहासिककार्याणि कृतवान्, एतानि सर्वाणि कार्याणि स्वर्णाक्षरैः लिखितानि भविष्यन्ति।
केन्द्रीयमन्त्री पीयूष गोयलो मोदीशासनस्य द्वादशवर्षपूर्त्यवसरे गुरुवासरे भारतीयजनतापक्षस्य लखनऊमहानगरैककस्य पक्षतः सहकारिताभवनस्य सभागारे आयोजिते प्रबुद्धजन विकसितभारतसङ्कल्पसम्मेलने भाषणं कृतवान्। कार्यक्रमे भाजपानेतॄणां स्वागतस्य अनन्तरं तेन स्वसम्बोधने प्रधानमन्त्रिणः मोदीस्य द्वादशवर्षीयकार्यकालस्य उपलब्धीनां विस्तृतरूपेण उल्लेखः कृतः।
तेन उक्तं यत् अद्य सम्पूर्णः देशः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह स्थितः अस्ति। सः देशस्य प्रथमः एतादृशः व्यक्तिः अस्ति, यः गुजरातस्य मुख्यमन्त्रिपदात् आरभ्य प्रधानमन्त्रिपर्यन्तं निरन्तररूपेण कार्यं कृतवान् तथा च एकमपि दिनं विश्रामं न स्वीकृतवान्। तेन उक्तं यत् अस्मिन् एव वर्षे अक्टोबरमासे उभयोः कार्यकालयोः समाहारेण पञ्चविंशतिवर्षाणि पूर्णानि भविष्यन्ति।
प्रधानमन्त्रिणः मोदिनः कार्यकाले अयोध्यायां राममन्दिरनिर्माणम्, जम्मूकश्मीरप्रदेशे अनुच्छेद ३७० निरसनम्, देशात् नक्सलवादस्य आतंकवादस्य च समूलनाशाय प्रयत्नाः, देशस्य अशीतिकोटिजनानां कृते निःशुल्कराशनप्रदानम्, प्रत्येकगृहे नलमार्गेण जलापूर्तिः, कोरोनाकाले टीकानिर्माणम् तथा जनानां सर्वथा सुरक्षायाः व्यवस्थां निर्दिशन् केन्द्रीयमन्त्री गोयल उक्तवान् यत् अद्य भारतं विश्वस्य अतिवेगेन वर्धमाना अर्थव्यवस्था अस्ति।
एतेन सह महिलानाम् आत्मनिर्भरत्वाय अपि अनेकाः योजनाः सन्ति। प्रधानमन्त्री मोदी विकासेन सह विरासतायाः संरक्षणस्य दिशि अपि तीव्रगत्या कार्यं करोति। अयोध्यायां राममन्दिरनिर्माणम्, काश्यां बाबा विश्वनाथ गलियारा, उज्जयिन्यां महाकाल गलियारा, सोमनाथमन्दिरस्य स्वाभिमानकार्यक्रमाः तथा उत्तराखण्डे श्रीकेदारधाम बद्रीनाथधामयोः विकासकार्याणि तीव्रगत्या प्रचलन्ति तथा च तेषु बहूनि कार्याणि सम्पन्नानि सन्ति।
गोयल उक्तवान् यत् चतुर्दशकोटिजनानां सहभागितया देशः वर्षे २०४७ तमे विकसितराष्ट्रम्, आत्मनिर्भरभारतं विश्वगुरुं च भविष्यति। तेन उक्तं यत् उत्तरप्रदेशस्य जनैः एव प्रथमवारं वाराणसीतः नरेन्द्र मोदी आशीर्वादितः प्रधानमन्त्रिपदे स्थापितः च। अत्रत्याः जनाः पुनः एकवारं प्रधानमन्त्रिणं मोदीं मुख्यमन्त्रिणं योगी च आशीर्वादं दास्यन्ति।
प्रबुद्धजन विकसितभारतसङ्कल्पसम्मेलने लखनऊमहापौरा सुषमा खर्कवाल, पद्मश्री मालिनी अवस्थी, भारतीयजनतापक्षस्य वरिष्ठनेता शंकरलाल लोधी, विधानपरिषदः सदस्यः रामचन्द्र सिंह प्रधान, लालजी निर्मल, मुकेश शर्मा, विधायकः डॉ नीरज बोरा, वरिष्ठभाजपानेता नीरज सिंह, महानगराध्यक्षः आनन्द द्विवेदी, कार्यक्रमस्य संयोजकः सतेन्द्र सिंह, भारतीयजनतापक्षस्य महानगरमहामन्त्री घनश्याम अग्रवाल तथा अन्ये बहवः नेतारः कार्यकर्तारः च बहुसंख्यया उपस्थिताः आसन्।
राष्ट्रप्रेरणास्थलस्य भ्रमणं कृतम्, पौधरोपणम् अपि कृतम्। कार्यक्रमात् पूर्वं केन्द्रीयमन्त्री गोयल वरिष्ठनेतृभिः सह राष्ट्रप्रेरणास्थलस्य भ्रमणं कृतवान्। तत्र स्थापितानां भारतरत्न अटल बिहारी वाजपेयी, पण्डित श्यामा प्रसाद मुखर्जी तथा पण्डित दीनदयाल उपाध्याय इत्येषां प्रतिमानां समीपं गत्वा तान् प्रणम्य श्रद्धाञ्जलिं समर्पितवान्। तेन उक्तं यत् एतेषां त्रयाणां महापुरुषाणां प्रेरणाभिः सिद्धान्तैः च अद्य भारतीयजनतापक्षः देशस्य विकासे स्वीयं योगदानं ददाति। अस्मिन् अवसरे तेन प्रेरणास्थलपरिसरे एकः पादपः अपि रोपितः।
—————————————
Hindusthan Samachar / Dheeraj Maithani