प्रधानमंत्रिणः जी7 मध्ये सहयोगी देशैः सह द्विपक्षीयोपवेशनं वार्तायाः आशा च- विदेशमंत्रालयः
नव दिल्ली, 11 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी १४ तः १८ जूनपर्यन्तं फ्रान्सदेशस्य स्लोवाकियादेशस्य च यात्रायां भविष्यन्ति। अस्मिन् अवधौ ते विश्वस्य सप्त प्रमुखार्थव्यवस्थायुक्तानां राष्ट्राणां समूहस्य जी-७ शिखरसम्मेलने भागं ग्रहीष्यन्ति
G7 countries


नव दिल्ली, 11 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी १४ तः १८ जूनपर्यन्तं फ्रान्सदेशस्य स्लोवाकियादेशस्य च यात्रायां भविष्यन्ति। अस्मिन् अवधौ ते विश्वस्य सप्त प्रमुखार्थव्यवस्थायुक्तानां राष्ट्राणां समूहस्य जी-७ शिखरसम्मेलने भागं ग्रहीष्यन्ति।

विदेशमन्त्रालयस्य पाश्चात्यविषयाणां सचिवः सिबी जॉर्ज इत्यनेन उक्तं यत् १५ तः १७ जूनपर्यन्तं फ्रान्सदेशस्य एवियन नगरे जी-७ शिखरसम्मेलनस्य आयोजनं भविष्यति। १६ तथा १७ जूनदिने जी-७ शिखरसम्मेलनस्य आउटरीच सत्राणि निर्धारितानि सन्ति। प्रधानमन्त्री अन्यैः आमन्त्रितदेशैः सह तेषु भागं ग्रहीष्यति। भारतः सहभागिदेशरूपेण आमन्त्रितः अस्ति। एतत् जी-७ शिखरसम्मेलने भारतस्य त्रयोदशी सहभागिता भविष्यति तथा च प्रधानमन्त्री मोदी सततं सप्तमवारं अस्मिन् सम्मेलने सहभागी भविष्यति।

जॉर्ज इत्यनेन उक्तम्, “अस्मिन् वर्षे भारतः जी-७ इत्यस्य बहुषु उपवेशनेषु कार्यक्रमेषु च सम्मिलितुं आमन्त्रितः आसीत्। विदेशमन्त्री अस्य वर्षस्य आरम्भे पेरिस नगरे सम्पन्नायां जी-७ राष्ट्राणां विदेशमन्त्रिणां उपवेशने भागं गृहीतवान्। शिखरसम्मेलनस्य समये प्रधानमन्त्री जी-७ राष्ट्रैः, सहभागिराष्ट्रैः तथा अन्तरराष्ट्रीयसङ्गठनैः सह द्विपक्षीयाः उपवेशनाः संवादाश्च करिष्यन्ति इति अपेक्षा अस्ति।”

विदेशमन्त्रालयस्य अनुसारेण प्रधानमन्त्रीणः यात्रा फ्रान्सदेशस्य त्रयाणि नगराणि — नीस, एवियन, पेरिस — तथा स्लोवाकियादेशं समावेष्टयिष्यति। प्रधानमन्त्री फ्रान्सदेशे द्विपञ्चाशत्तमं जी-७ शिखरसम्मेलने भागं ग्रहीष्यति तथा च फ्रान्सदेशस्य राष्ट्रपतिना इमैनुएल मैक्रों तथा स्लोवाकियादेशस्य प्रधानमन्त्रीना रॉबर्ट फिको सह द्विपक्षीयवार्तां करिष्यति।

सिबी जॉर्ज इत्यनेन उक्तं यत् प्रधानमन्त्री १४ तः १६ जूनपर्यन्तं स्लोवाकियादेशस्य राजकीययात्रां करिष्यति। वर्षे १९९३ तमे स्लोवाकियादेशस्य स्वतन्त्रतायाः अनन्तरं कस्यचित् भारतीयप्रधानमन्त्रिणः एषा प्रथमायात्रा भविष्यति। अस्मिन् समये उभयोः राष्ट्रयोः मध्ये व्यापारः, निवेशः, परिवहनम्, नवीकरणीयऊर्जा, उद्भवमानप्रौद्योगिकी, रक्षा-उत्पादनम् इत्यादिषु क्षेत्रेषु सहकारवर्धनस्य विषये चर्चा भविष्यति। प्रधानमन्त्री स्लोवाकियादेशस्य व्यापारिकसमुदायेन सह अपि संवादं करिष्यति।

विदेशमन्त्रालयस्य अतिरिक्तसचिवः पीयूष श्रीवास्तव इत्यनेन उक्तं यत् प्रधानमन्त्री स्वयात्रां फ्रान्सदेशस्य नीस नगरात् प्रारम्भं करिष्यति। तत्र तेषां फ्रान्सदेशस्य राष्ट्रपतिना इमैनुएल मैक्रों सह व्यापकवार्ता भविष्यति, यस्यां द्विपक्षीयसम्बन्धानां सह क्षेत्रीयवैश्विकविषयेषु अपि चर्चा भविष्यति। उभौ नेतारौ संयुक्तरूपेण ‘भारत इनोवेट्स’ इत्यस्य उपक्रमस्य उद्घाटनं करिष्यतः, यः वैश्विकस्तरे भारतस्य नवाचारक्षमतां उपलब्धीश्च प्रदर्शयितुं एकः मञ्चः अस्ति।

----------

Hindusthan Samachar / Dheeraj Maithani