Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः अध्यक्षतायां राष्ट्रीय-नीति-आयोगस्य ११तमा शासन-परिषदः सभा अद्य गुरुवासरे नवदेहल्यां आयोज्यते। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अस्यां अतिमहत्त्वपूर्णायां सभायां सहभागी भविष्यति।
जनसम्पर्क-अधिकारी घनश्याम-सिरसाम-महोदयेन सूचितं यत् नीति-आयोगस्य शासन-परिषदः सभायाः विषयः “२०४७ तमवर्षपर्यन्तं विकसित-भारताय समावेशी-मानव-विकासः” इति निर्धारितः अस्ति। मुख्यमन्त्री डॉ.यादवः सभायां मध्यप्रदेशे क्रियमाणानां कार्याणां योजनानां च विषये सूचना: सहभागं करिष्यति।
तेन उक्तं यत् अस्यां सभायां विभिन्न-राज्यानां मुख्यमन्त्रिणः केन्द्रशासित-प्रदेशानां उपराज्यपालाश्च एकत्र मिलित्वा समावेशी-मानव-विकासस्य प्रारूपविषये चर्चां करिष्यन्ति। सभा मुख्यतया “मूलभूत-मानव-पूञ्जी तथा भविष्याय सज्जाः कौशलाः”, “उत्पादक-रोजगारः, उद्यमिता तथा विकेन्द्रीकृत-विकासः”, “स्वास्थ्यं, पोषणं तथा कल्याणम्”, एवं “सर्वेभ्यः समानता तथा गरिमा” इत्यादिषु विषयेषु केन्द्रिता भविष्यति।
सभायां देशव्यापि उद्यमितायाः प्रोत्साहनं, कौशल-विकासस्य संवर्धनं तथा स्थायी-रोजगार-अवसराणां सृजनार्थम् उपायानां विषयेऽपि विचार-विमर्शः भविष्यति।
अस्यां सभायां देशस्य सर्वेषां राज्याणां केन्द्रशासित-प्रदेशानां च मुख्यमन्त्रिणः, केन्द्रशासित-प्रदेशानां उपराज्यपालाः/प्रशासकाः, केन्द्रीय-मन्त्रिणः पदेन-सदस्यरूपेण, विशेष-आमन्त्रित-सदस्यरूपेण च उपस्थिताः भविष्यन्ति। तथा च नीति-आयोगस्य उपाध्यक्षः, सदस्याः, मुख्य-कार्यकारी-अधिकारी च सभायां उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan