Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ जूनमासः (हि.स.)। मध्यप्रदेशस्य आयुष-मन्त्रिणा इन्दर-सिंह-परमारेण उक्तं यत् होम्योपैथी केवलं चिकित्सा-पद्धतिः न, अपितु सेवा-संवेदना-समर्पणानां माध्यमम् अस्ति। चिकित्सकानां दायित्वं केवलं रोगाणां उपचारः न, अपितु समाजं स्वस्थं, जागरूकं तथा निरोगं कर्तुं सक्रियभूमिकायाः निर्वहणम् अपि अस्ति। तेन इदम् अपि उक्तं यत् चिकित्सा-क्षेत्रे सेवाभावः, कर्तव्यनिष्ठा तथा मानवीय-मूल्यानां समावेशः अत्यन्तम् आवश्यकः अस्ति।
मन्त्री परमारः गुरुवासरे भोपाल-नगरस्थिते पं.खुशीलाल-शर्मा आयुर्वेद-संस्थानस्य रजत-जयन्ती-सभागारे आरोग्य-भारती तथा शासकीय-होम्योपैथी-चिकित्सा-महाविद्यालय-चिकित्सालययोः संयुक्त-तत्त्वावधाने आयोजितस्य “नेशनल होम्योपैथी कॉन्फ्रेंस–अमृतम्” इत्यस्य शुभारम्भं कृत्वा चिकित्सकान्, शिक्षाविदः तथा विशेषज्ञान् सम्बोधितवान्।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी-वर्यस्य नेतृत्वे आयुष-चिकित्सा-पद्धतयः राष्ट्रिय-वैश्विक-स्तरे नूतनं परिचयं प्राप्तवत्यः। राज्य-सर्वकारः अपि आयुष-होम्योपैथी-चिकित्सायाः विस्ताराय, गुणवत्तायुक्त-शिक्षायै, अनुसन्धानाय तथा चिकित्सा-अवसंरचनायाः विकासाय निरन्तरं प्रयत्नशीलः अस्ति। मन्त्री परमारः उज्जयिन्यां नवीन-शासकीय-होम्योपैथी-चिकित्सा-महाविद्यालयस्य स्थापनायाः विषयमपि उक्तवान्।
कार्यक्रमे सारस्वत-वक्तारः राष्ट्रीय-होम्योपैथी-आयोगस्य अध्यक्षः डॉ.तारकेश्वर-जैनः अवदत् यत् होम्योपैथी-चिकित्सा-पद्धतिः मानव-कल्याणाय तथा स्वस्थ-समाज-निर्माणाय विकसिताऽस्ति। तेन चिकित्सकान् प्रति आवाहनं कृतं यत् ते मूल-सिद्धान्तेषु निष्ठां धारयित्वा जनसेवां कुर्वन्तु।
आरोग्य-भारती-राष्ट्रीय-संघटन-सचिवः डॉ.अशोक-कुमार-वार्ष्णेयः समग्र-चिकित्सा-पद्धतीनां समन्वित-विकासे बलं दत्त्वा उक्तवान् यत् सर्वेषां चिकित्सा-पद्धतीनां विशेषज्ञैः सहयोग-सम्वाद-सेवाभावेन कार्यं करणीयम्, येन समाजाय उत्तम-स्वास्थ्य-सुविधाः प्राप्यन्ते।
देशभरात् आगतैः प्रायः ४५० होम्योपैथिक-चिकित्सकैः तथा विशेषज्ञैः युक्ते अस्मिन् सम्मेलने कार्यशालायां च होम्योपैथी-चिकित्सायाः नूतन-दिशाः, अनुसन्धानम्, चिकित्सा-शिक्षा, जन-स्वास्थ्यं तथा समग्र-स्वास्थ्य-प्रबन्धनम् इत्यादिषु विषयेषु विस्तृतः विचार-विमर्शः कृतः।
कार्यशालायां अपर-सचिव-सह-आयुक्तः आयुष डॉ.संजय-मिश्रः, प्रख्यात-प्रबन्धन-विशेषज्ञः एस.बी.डंगायचः, आरोग्य-भारती-राष्ट्रीय-प्रान्तीय-पदाधिकारीणः, प्रदेशस्य विभिन्न-होम्योपैथिक-चिकित्सा-महाविद्यालयानां प्राचार्याः, चिकित्सकाः, शोधकर्तारः तथा अन्ये गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan