मध्यप्रदेशः- शाकोत्पादने देशे तृतीयस्थाने प्राप्नोत्, चतुर्वर्षेषु जाता 21.58 लक्षं मीट्रिक टनमितायाः अभूतपूर्व वृद्धिः
भोपालम्, 11 जूनमासः (हि.स.)। मध्यप्रदेशः शाकोत्पादने एकां नवीनाम् उपलब्धिम् अधिगतवान् अस्ति। विगतचतुर्षु वर्षेषु प्रदेशस्य शाकोत्पादने प्रायः २१.५८ लक्षमेट्रिकटनपरिमिता उल्लेखनीया वृद्धिः अभवत्। मध्यप्रदेशः अधुना देशे शाकानाम् उत्पादनस्य क्षेत्रे
सब्जी (प्रतीकात्मक)


भोपालम्, 11 जूनमासः (हि.स.)।

मध्यप्रदेशः शाकोत्पादने एकां नवीनाम् उपलब्धिम् अधिगतवान् अस्ति। विगतचतुर्षु वर्षेषु प्रदेशस्य शाकोत्पादने प्रायः २१.५८ लक्षमेट्रिकटनपरिमिता उल्लेखनीया वृद्धिः अभवत्। मध्यप्रदेशः अधुना देशे शाकानाम् उत्पादनस्य क्षेत्रे तृतीयस्थानं धारयति।

मध्यप्रदेशः कृषेः उद्यानिकीक्षेत्रस्य च विषये देशस्य अग्रणी राज्येषु स्वस्य सुदृढां परिचयं स्थापितवान् अस्ति। मुख्यमन्त्रिणः डॉ. मोहन यादवस्य नेतृत्वे वर्ष २०२६ कृषककल्याणवर्ष इति रूपेण आचर्यते। अस्य उद्देश्यः कृषकाणां आयवृद्धिः, कृषेः विविधीकरणं तथा कृषिकर्मणः अधिकलाभकरत्वं कर्तुम् अस्ति।

जनसम्पर्काधिकारी अनिल वशिष्ठः गुरुवासरे अवदत् यत् उद्यानिकी खाद्यप्रसंस्करणविभागेन समृद्धः कृषकः समृद्धः मध्यप्रदेशः इति विषयाधारेण शाकक्षेत्रविस्तारस्य व्यापककार्ययोजना सज्जीकृता अस्ति। प्रदेशस्य अनुकूलजलवायुः, उर्वरा भूमि, सिञ्चनसंसाधनानां विस्तारः तथा कृषकैः आधुनिकप्रविधीनाम् स्वीकरणस्य कारणात् शाकोत्पादने निरन्तरं वृद्धिः अभिलेखिता भवति।

वर्षे २०२२ २३ मध्ये प्रदेशे शाकानां उत्पादनं २३६.४१ लक्षमेट्रिकटनम् आसीत्, यत् वर्षे २०२४ २५ मध्ये वर्धित्वा २५७.९९ लक्षमेट्रिकटनपर्यन्तम् अभवत्। एषा वृद्धिः राज्यस्य कृषि उद्यानिकीक्षेत्रयोः सुदृढां प्रगतिं प्रदर्शयति।

जनसम्पर्काधिकारिणः अनुसारं राष्ट्रियस्तरे शाकानां कुलोत्पादनं प्रायः २१७७ लक्षमेट्रिकटनम् अस्ति, यस्मिन् मध्यप्रदेशस्य योगदानं प्रायः २५९ लक्षमेट्रिकटनम् अस्ति। देशस्य खाद्यपोषणसुरक्षायां मध्यप्रदेशः महत्त्वपूर्णं योगदानं ददाति। प्रदेशस्य लक्षशः कृषकाः शाकोत्पादनद्वारा स्वीयां आयं वर्धयन्ति तथा देशस्य वर्धमानां आवश्यकताम् अपि पूरयन्ति।

तेन उक्तं यत् प्रदेशे कृषकैः पलाण्डु, आलुकम्, रक्तफलम्, वृन्ताकम्, पुष्पशाकम्, पत्रशाकम्, हरितमुद्गिका, भिण्डिका, पालकशाकम्, अलाबू, अरवी, कारवेल्लम्, कर्कटी, मूलकः, तुरी, गाजरम्, मधुरकन्दः, शिमलामरिचम्, परवलम् इत्यादीनां नानाविधानां शाकानां उत्पादनं क्रियते। एतेषु पलाण्डोः उत्पादनस्य विशेषं स्थानम् अस्ति। प्रदेशे सर्वाधिकं क्षेत्रं पलाण्डुकृष्यै उपयुज्यते। वर्षे २०२२ २३ मध्ये पलाण्डोः क्षेत्रफलम् २.१७ लक्षहेक्टेयरम् आसीत्, यत् वर्षे २०२४ २५ मध्ये वर्धित्वा प्रायः २.३० लक्षहेक्टेयरम् अभवत्।

तेन उक्तं यत् प्रदेशे लघुभूमिधारिणः कृषकाः शाकसस्यानां उत्पादनार्थं अधिकं प्रोत्साहितव्याः सन्ति, येन अल्पभूमौ अधिका आयः प्राप्तुं शक्यते। शाकोत्पादनम् अस्मिन् दृष्ट्या प्रभाविश्रेष्ठविकल्पेषु एकम् अस्ति, अतः कृषककल्याणवर्षे शाकक्षेत्रविस्ताराय विशेषप्राथमिकता प्रदत्ता अस्ति।

जनसम्पर्काधिकारी वशिष्ठः अवदत् यत् उद्यानिकी खाद्यप्रसंस्करणविभागस्य कार्ययोजनायां प्रदेशे ५४ सहस्रहेक्टेयरक्षेत्रे शाकानां विस्तारस्य लक्ष्यम् निर्धारितम् अस्ति। अस्मिन् १३ सहस्र ३०० हेक्टेयरक्षेत्रे आलुकस्य, ९ सहस्र ८०० हेक्टेयरक्षेत्रे रक्तफलस्य, १६ सहस्र ५०० हेक्टेयरक्षेत्रे पलाण्डोः, ३ सहस्र ५०० हेक्टेयरक्षेत्रे मटरस्य, ३ सहस्र ५०० हेक्टेयरक्षेत्रे पुष्पशाक पत्रशाकयोः, १ सहस्र २०० हेक्टेयरक्षेत्रे उच्चमूल्यशाकानां तथा ६ सहस्र २०० हेक्टेयरक्षेत्रे कद्दूवर्गीयशाकानां विस्तारः भविष्यति।

अस्याः योजनायाः माध्यमेन कृषकेभ्यः तकनीकीमार्गदर्शनं, गुणवत्तायुक्तपादपसामग्री, आधुनिककृषिप्रविधयः तथा विपणनसुविधाः प्रदास्यन्ते।

तेन उक्तं यत् कृषककल्याणवर्षस्य मूलोद्देश्यः कृषकान् आत्मनिर्भरान् आर्थिकरूपेण च सशक्तान् कर्तुम् अस्ति। शाकोत्पादनवृद्ध्या कृषकेभ्यः वर्षपर्यन्तं नियमिताया आयाः प्राप्तिः भवति, येन तेषाम् आर्थिकस्थितौ सुधारः आगच्छति। सहैव प्रदेशे पोषणसुरक्षायाः अपि दृढता वर्धते। शाकानां वर्धमानाम् आवश्यकतां दृष्ट्वा एतत् क्षेत्रं रोजगारसृजनस्य अपि महत्त्वपूर्णं साधनं भवति। ग्रामक्षेत्रेषु उत्पादनपरिवहनभण्डारणविपणनादिषु सम्बद्धेभ्यः सहस्रशः जनानां रोजगारावसराः प्राप्यन्ते।

जनसम्पर्काधिकारी अवदत् यत् उद्यानिकी खाद्यप्रसंस्करणविभागः कृषकान् उद्यानिकीसस्यानां प्रति आकर्षयितुं निरन्तरं प्रयत्नशीलः अस्ति। विभागीययोजनानां उद्देश्यः कृषकान् परम्परागतकृषेः सह उच्चमूल्यशाकानाम् उत्पादनाय प्रेरयितुम् अस्ति, येन ते अल्पभूमौ अधिकं लाभं प्राप्तुं शक्नुवन्ति। आधुनिकप्रविधिः, संरक्षितकृषिः, सूक्ष्मसिञ्चनम् तथा गुणवत्तायुक्तबीजानां उपयोगेन उत्पादनस्य उत्पादकतायाश्च वृद्धिः सुनिश्चितीक्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani