Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे कृषेः कृषकाणां च महत्त्वं रेखाङ्कयन् अवदत् यत् कृषि केवलम् आजीविकायाः साधनं नास्ति, अपितु समाजस्य राष्ट्रस्य च पोषणस्य आधारशिला अस्ति। तेन संस्कृत-सुभाषितस्य माध्यमेन कृषिः मानवजीवनस्य मूलाधारः इति प्रतिपाद्य कृषकाणां योगदानस्य प्रशंसा कृता।
प्रधानमन्त्री मोदी सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रसारिते सन्देशे अवदत् यत् देशस्य कृषक-भ्रातृभिः भगिनीभिश्च परिश्रमेण उत्पादितम् अन्नं कोटिशः जनानां जीवनाय सम्बलं प्रददाति। तेन उक्तं यत् कृषिः राष्ट्रनिर्माणस्य समाजस्य भरण-पोषणस्य च प्रमुखं माध्यमम् अस्ति।
प्रधानमन्त्रिणा संस्कृत-सुभाषितम् उद्धृत्य लिखितम्—
“ते कृषिं च सस्यं च मनुष्याः उपजीवन्ति।कृष्टिराधिरूपजीवन्यो भवति य एवं वेद॥”
अस्य सुभाषितस्य आशयः अस्ति यत् कृषिः सस्यानि च मानवजीवनस्य आधारशिलाः सन्ति। यः एतत् सत्यं सम्यक् अवगच्छति, सः कृषिकर्म सम्यक् दिशि प्रवर्तयति तथा च तस्य माध्यमेन समाजस्य भरण-पोषणे महत्त्वपूर्णां भूमिकां निर्वहति।
प्रधानमन्त्रिणा स्वसन्देशे #किसानसमृद्धिके१२साल इत्यस्य अपि उल्लेखः कृतः तथा च कृषकाणां समृद्धेः कृषि-क्षेत्रस्य महत्त्वस्य च विषये बलं प्रदत्तम्। तेन उक्तं यत् कृषिः भारतीय-अर्थव्यवस्थायाः मेरुदण्डः अस्ति तथा च कृषकाणाम् अथक-परिश्रमेण एव देशस्य खाद्य-सुरक्षा सुनिश्चितीक्रियते।
प्रधानमन्त्री कृषकान् प्रति सम्मानं प्रकटयन् अवदत् यत् कृषि-क्षेत्रस्य सुदृढता देशस्य समग्र-विकासाय आत्मनिर्भरतायै च अत्यावश्यकी अस्ति। तेन कृषकाणां योगदानं राष्ट्रस्य प्रगतेः महत्त्वपूर्णम् आधारम् इति वर्णितम्।
Hindusthan Samachar / Divya Ranjan