Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी केन्द्र-सर्वकारस्य द्वादश-वर्षीय-कार्यकालस्य पूर्णतायां कृषक-कल्याणार्थं कृतानां कार्याणां प्रशंसाम् अकरोत्। तेन उक्तं यत् कृषकेभ्यः आधुनिक-प्रौद्योगिकी, न्यून-व्याज-दरेण ऋण-सुविधा, सस्यानां उचित-मूल्यं, आय-सुरक्षा तथा सौर-ऊर्जा इत्यादीनां सुविधानां प्रदानेन तेषां उत्पादकता जीवन-स्तरश्च उन्नेतुं सर्वकारेण निरन्तरं प्रयत्नः कृतः अस्ति।
प्रधानमन्त्री गुरुवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र लिखितवान् यत् कृषकाणां कल्याणम् अस्माकं सर्वोच्च-प्राथमिकतासु अन्यतमम् अस्ति। कृषकेभ्यः कृषिसम्बद्धानाम् आधुनिक-सुविधानां प्रदाने सर्वकारस्य निरन्तरं बलं वर्तते। ड्रोन-प्रौद्योगिकी, मृदा-स्वास्थ्य-पत्रिका तथा प्राकृतिक-उर्वरक-सम्बद्ध-अभियानैः कृषकाः सस्योत्पादकतां वर्धयितुं समर्थाः अभवन्।
प्रधानमन्त्री अन्यस्मिन् सन्देशे उक्तवान् यत् कृषेः अन्यासां आवश्यकतानां च पूर्त्यर्थं न्यून-व्याज-दरेण सुलभ-ऋण-प्रदानस्य क्षेत्रे किसान-क्रेडिट-कार्ड-योजना कृषकाणां, पशुपालकानां मत्स्यपालकानां च कृते अत्यन्तं उपयोगिनी सिद्धा अस्ति। तथैव ‘बीजात् बाजारं यावत्’ इति उपक्रमः तेषां सस्यानाम् उचित-मूल्य-प्राप्तौ महत्त्वपूर्णां भूमिकां निर्वहति।
अन्यस्मिन् सन्देशे प्रधानमन्त्री उक्तवान् यत् अस्माकं कृषक-भ्रातरः भगिन्यश्च देशस्य अन्न-सुरक्षायाः, पोषणस्य समृद्धेश्च आधारस्तम्भाः सन्ति। तेषां जीवनं सुकरं कर्तुं सर्वकारः किमपि न्यूनं न करोति। प्रधानमन्त्री-किसान-सम्मान-निधि-योजना तथा सस्य-बीमा-योजना इत्यादयः उपक्रमाः तेषाम् आय-सुरक्षां सुनिश्चित्य कृषिं अधिक-सशक्तां कुर्वन्ति। तेन एतदपि उल्लिखितं यत् प्रधानमन्त्री-कुसुम-योजनया कृषकेभ्यः सौर-ऊर्जा सुलभा अभवत्, येन कृषेः व्ययः न्यूनः जातः तथा च ऊर्जा-उपलब्धता वर्धिता अस्ति।
Hindusthan Samachar / Divya Ranjan