Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ जूनमासः (हि.स.)। तमिल-चलच्चित्र-जगतः विख्यातः निर्देशकः अभिनेता च भारतीराजः बुधवासरे चेन्नईनगरे ८४ वर्षस्य वयसि दिवंगतः। सः गत-किञ्चित्कालात् स्वास्थ्य-सम्बद्ध-समस्याभिः पीडितः आसीत्। तस्य निधनात् भारतीय-चलच्चित्र-जगति शोकतरंग: व्याप्त: अस्ति तथा च विविध-राजनैतिक-सांस्कृतिक-क्षेत्रेषु प्रतिष्ठित-व्यक्तिभिः तस्मै श्रद्धाञ्जलिः अर्पिता।
प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रसारिते स्वसन्देशे भारतीराजस्य निधनं प्रति दुःखं व्यक्तवान्। तेन उक्तं यत् तस्य निधनम् अत्यन्तं दुःखदं वर्तते। सः चलच्चित्र-जगतः महान् व्यक्तित्वम् आसीत्, यस्य कृतिभिः तमिल-चलच्चित्र-जगतः नूतना दिशा प्रदत्ता। ग्रामीण-जीवनस्य तेन कृतं सजीवं यथार्थपरकं च चित्रणं सदा स्मरणीयं भविष्यति। प्रधानमन्त्री शोक-सन्तप्त-परिवारस्य प्रशंसकानां च प्रति संवेदनाः व्यक्तवान्।
लोकसभा-अध्यक्षः ओम्-बिड़ला अपि उक्तवान् यत् भारतीराजः स्वस्य दूरदर्शिन्या कथन-शैल्या तथा ग्रामीण-जीवनस्य यथार्थ-चित्रणेन प्रसिद्धः आसीत्। तेन तमिल-चलच्चित्र-जगतः विशिष्ट: परिचय: प्राप्त: तथा च अनेकाभिः स्मरणीयाभिः चलचित्र-कृतिभिः भारतीय-चलच्चित्र-जगतः समृद्धः अभवत्। तस्य योगदानम् अग्रिम-वंशानां चलचित्र-निर्मातॄन् कलाकारांश्च प्रेरयिष्यति।
केन्द्रीय-संस्कृति-पर्यटन-मन्त्री गजेन्द्रसिंह-शेखावतः अवदत् यत् भारतीराजस्य निधननेन भारतीय-चलच्चित्रस्य एकस्य असाधारण-अध्यायस्य समापनम् अभवत्। तेन सामान्य-जनानां जीवनं, तेषाम् आकाङ्क्षाः भावनाश्च प्रभावपूर्णतया रजतपटे प्रस्तुत्य कथा-कथन-कलायाः नूतना परिभाषा प्रदत्ता। तेन दिवंगतस्य निर्देशकस्य परिवारजनानां, सहकर्मिणां, प्रशंसकान् च प्रति गभीराः संवेदनाः व्यक्ताः।
भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षः नितिन-नवीनः अपि भारतीराजस्य निधनं प्रति शोकं व्यक्तवान्। तेन उक्तं यत् भारतीराजः स्वचलच्चित्रेषु ग्रामीण-जीवनं मानवीय-संवेदनाश्च अत्यन्तं प्रभावशालितया प्रस्तुतवान्। तेन चलच्चित्र-जगतः नूतन-प्रतिभानां परिचये अपि महत्त्वपूर्णा भूमिका निर्वुढा।
उल्लेखनीयम् अस्ति यत् भारतीराजस्य जन्म १७ जुलाईमासे १९४१ तमे तमिलनाडु-राज्यस्य थेनी-जनपदस्य अल्ली-नगर-ग्रामे अभवत्। तस्य पितरौ पेरिया-मायाथेवरः तथा मीनाक्षी-अम्माल: आस्ताम्। तस्य वास्तविकं नाम चिन्नासामी आसीत्, किन्तु अनन्तरं सः ‘भारतीराज’ इति नाम्ना प्रसिद्धिं प्राप्तवान्। तस्य प्रथमं चलचित्रं ‘१६ वयतिनिले’ आसीत्। तेन प्रायः ४४ चलचित्राणां निर्देशनं कृतम्।
Hindusthan Samachar / Divya Ranjan