निजी-पारिवारिक-कार्यक्रमे सहभागितार्थं कानपुरनगरम् आगतः संघ-प्रमुखः मोहन-भागवतः
कानपुरनगरम्, ११ जूनमासः (हि.स.)। राष्ट्रिय-स्वयंसेवक-संघस्य सरसंघचालकः मोहन-भागवतः गुरुवासरे उत्तरप्रदेशस्य कानपुरनगरम् आगतः। तस्य अयं प्रवासः निजी-पारिवारिक-कार्यक्रमस्य निमित्तम् अस्ति। तस्य आगमनस्य दृष्ट्या रेलस्थानकात् कार्यक्रम-स्थलपर्यन्तं सु
कड़ी सुरक्षा व्यवस्था के बीच रेलवे स्टेशन परिसर से बाहर आते आरएसएस प्रमुख मोहन भागवत


कानपुरनगरम्, ११ जूनमासः (हि.स.)। राष्ट्रिय-स्वयंसेवक-संघस्य सरसंघचालकः मोहन-भागवतः गुरुवासरे उत्तरप्रदेशस्य कानपुरनगरम् आगतः। तस्य अयं प्रवासः निजी-पारिवारिक-कार्यक्रमस्य निमित्तम् अस्ति। तस्य आगमनस्य दृष्ट्या रेलस्थानकात् कार्यक्रम-स्थलपर्यन्तं सुरक्षायाः विशेष-व्यवस्था कृता।

मोहन-भागवतः प्रातःकाले डिब्रूगढ़-राजधानी-एक्सप्रेस-यानतः कानपुर-सेन्ट्रल-रेलस्थानकम् प्राप्तवान्। ततः सः कड़ी-सुरक्षा-व्यवस्थायां वाहनेन सिविल-लाइन्स-क्षेत्रस्थितं विश्राम-स्थलं प्रति प्रस्थितवान्। तस्य आगमनं दृष्ट्वा रेलस्थानक-परिसरे अतिरिक्त-आरक्षक-दलस्य नियुक्तिः कृता आसीत्।

वस्तुतः पूर्व-क्षेत्र-संघचालकस्य वीरेन्द्रजीत-सिंह-महोदयस्य पौत्र्याः तथा वरिष्ठ-समाजसेविकायाः शिक्षाविदः च डॉ.नीतू-सिंह-महोदयायाः परिवारे विवाह-कार्यक्रमः आयोज्यते। तस्याः सुपुत्र्याः वसुन्धरायाः विवाहः २१ जून-दिनाङ्के सम्पन्नः भविष्यति। अस्य मुख्य-विवाह-कार्यक्रमस्य पूर्वं अद्य आजाद-नगर-क्षेत्रे विशेषः आशीर्वाद-समारोहः आयोजितः अस्ति। संघ-प्रमुखः अस्मिन् आशीर्वाद-कार्यक्रमे सहभागं कृत्वा नवदम्पत्यै शुभकामनाः आशीर्वादं च प्रदास्यति।

अस्मिन् कार्यक्रमे सामाजिक-शैक्षणिक-राजनैतिक-तथा विविध-सङ्घटन-सम्बद्धाः अनेकाः प्रमुख-व्यक्तयः सहभागिन: भविष्यन्ति इति सम्भावना वर्तते। अतः कार्यक्रम-स्थले सुरक्षायाः व्यवस्था अधिक-सुदृढा कृता अस्ति।

पुलिस-अधिकारिणां अनुसारं निर्धारित-समये कतिपयेषु मार्गेषु यातायातः नियन्त्रितः भविष्यति। कार्यक्रम-स्थलस्य समीपे गुरुवाहनानां सञ्चारः सीमितः कृतः अस्ति, यथा सुरक्षा-व्यवस्था तथा विशिष्ट-अतिथि-आवागमनं बाधितं न भवेत्। प्रशासनं जनान् यातायात-सम्बद्ध-निर्देशानां पालनं कर्तुं तथा आवश्यकता-अनुसारं वैकल्पिक-मार्गाणाम् उपयोगं कर्तुम् अपि अनुरोधं कृतवान्।

Hindusthan Samachar / Divya Ranjan