पर्यटन-क्षेत्रे परिवर्तनस्य द्वादश वर्षाणि - देशस्य पर्यटन-स्थलेषु चतुर्विंशतिहोरात्मक-सहायता-दूरवाणी-सेवा, पर्यटक-आरक्ष-व्यवस्था च
नवदेहली, ११ जूनमासः (हि.स.)। भारतदेशं वैश्विक-पर्यटन-मानचित्रे अधिकं सुरक्षितं सुगमं च कर्तुं सर्वकारेण अनेके महत्त्वपूर्णा: पदक्षेपा: गृहीता: सन्ति। पर्यटन-क्षेत्रे परिवर्तनस्य द्वादशवर्षीय-यात्रायाः अन्तर्गतं देशे एतादृशस्य सुदृढस्य पर्यटन-पारिस्
प्रतीकात्मक चित्र


नवदेहली, ११ जूनमासः (हि.स.)। भारतदेशं वैश्विक-पर्यटन-मानचित्रे अधिकं सुरक्षितं सुगमं च कर्तुं सर्वकारेण अनेके महत्त्वपूर्णा: पदक्षेपा: गृहीता: सन्ति। पर्यटन-क्षेत्रे परिवर्तनस्य द्वादशवर्षीय-यात्रायाः अन्तर्गतं देशे एतादृशस्य सुदृढस्य पर्यटन-पारिस्थितिकी-तन्त्रस्य निर्माणं क्रियते, यत्र देशीयाः विदेशीयाश्च पर्यटकाः निर्भयतया भ्रमणं कर्तुं शक्नुयुः।

पर्यटन-मन्त्रालयस्य अनुसारं सुरक्षितं स्वागतपूर्णं च यात्रा-अनुभवं सुनिश्चितं कर्तुं सर्वकारेण चतुर्विंशतिघण्टात्मक-बहुभाषिक-सहायता-दूरवाणी-सेवा तथा प्रमुख-पर्यटन-स्थलेषु विशेष-पर्यटक-पुलिस-नियोजनम् इत्यादयः महत्त्वपूर्णाः उपक्रमाः स्थलीय-स्तरे कार्यान्विताः सन्ति। यात्रायाः समये कस्यापि प्रकारस्य आपत्कालीन-स्थितेः, सूचनायाः कृते सर्वकारेण समर्पितः निःशुल्क-सहायता-दूरवाणी-सङ्ख्या १३६३ प्रकाशिता अस्ति। एषा सेवा अहोरात्रं कार्यं करोति। विदेशीय-देशीय-पर्यटकानां सुविधार्थम् एषा सेवा द्वादशभाषासु उपलब्धा अस्ति, येन भाषाजन्य-विघ्नस्य कारणात् कस्यापि साहाय्य-प्राप्तौ बाधा न भवेत्।

एतदतिरिक्तं पर्यटकानां कृते स्थलीय-स्तरे त्वरितां विशेषां च सुरक्षां प्रदातुं देशस्य प्रमुखेषु पर्यटन-राज्येषु पर्यटक-आरक्षक-व्यवस्था प्रवर्तिता अस्ति। अधुना एषा व्यवस्था गोवा, केरल, राजस्थान तथा जम्मू-कश्मीर-प्रदेशान् समावेश्य देशस्य पञ्चदश प्रमुखेषु राज्येषु केन्द्रशासित-प्रदेशेषु च पूर्णतया सक्रियतया कार्यरताऽस्ति।

अस्य विशेष-आरक्षक-दलस्य प्रमुखम् उद्देश्यं पर्यटन-स्थलेषु सम्भाव्यमानानां वञ्चनानां निवारणम्, पर्यटकानां मार्गदर्शनम्, तान् प्रति कस्यापि दुर्व्यवहारस्य सन्दर्भे त्वरित-कार्यवाही च अस्ति।

मन्त्रालयस्य अनुसारम् अस्याः नवीनायाः आधुनिकायाश्च व्यवस्थायाः माध्यमेन केन्द्र-सर्वकारस्य लक्ष्यं प्रत्येकं यात्रिकं प्रति एतत् विश्वासं प्रदातुम् अस्ति यत्— भवतः यात्रा यत्र कुत्रापि नयतु, साहाय्यं सदा भवतः समीपे एव उपलब्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan