दालचीनी इत्येतत् आधृत्य अंताराष्ट्रियसंगोष्ठ्याः कृषि मंत्री गणेश जोशी अकरोत् शुभारंभम्
देहरादूनम्, 11 जूनमासः (हि.स.)। उत्तराखण्ड प्रदेशस्य कृषि मन्त्री गणेश जोशी गुरुवासरे देहरादूनस्य सेलाकुई स्थिते परफ्यूमरी तथा सगन्ध अनुसंधान एवं विकास संस्थाने दालचीनी विषयक द्विदिवसीय अन्तरराष्ट्रीय संगोष्ठ्याः शुभारम्भं कृतवान्। अस्मिन् अवसरे
सेमिनार में प्रतिभागियों के साथ गणेश जोशी।


देहरादूनम्, 11 जूनमासः (हि.स.)।

उत्तराखण्ड प्रदेशस्य कृषि मन्त्री गणेश जोशी गुरुवासरे देहरादूनस्य सेलाकुई स्थिते परफ्यूमरी तथा सगन्ध अनुसंधान एवं विकास संस्थाने दालचीनी विषयक द्विदिवसीय अन्तरराष्ट्रीय संगोष्ठ्याः शुभारम्भं कृतवान्। अस्मिन् अवसरे तेन कार्यशालायाः स्मारिकायाः अपि विमोचनं कृतम्।

दालचीनी प्रवर्धन सतत कृषि तथा कटनोत्तर प्रौद्योगिकीषु नवाचार विषयकायां अस्यां संगोष्ठ्यां श्रीलंका, इंडोनेशिया सहित विविध देशेभ्यः विशेषज्ञाः, वैज्ञानिकाः, कृषकाः तथा उद्योग क्षेत्रस्य प्रतिनिधयः सहभागित्वं कुर्वन्ति।

कृषि मन्त्री गणेश जोशी उक्तवान् यत् राज्ये सगन्ध कृषेः प्रोत्साहनार्थं महक क्रान्ति नीति २०२६ प्रवर्तिता अस्ति। अस्याः अन्तर्गतं त्रयोविंशति सहस्र हेक्टेयर क्षेत्रं सगन्ध कृष्या आच्छाद्य एकानवतिसहस्र कृषकाणां लाभप्रदानस्य लक्ष्यं निर्धारितम् अस्ति। तेन उक्तं यत् चम्पावत तथा नैनीताल क्षेत्रयोः प्रायः पञ्चसहस्र द्विशत हेक्टेयर क्षेत्रे सिनेमन वैली इति विकासकार्यं क्रियमाणम् अस्ति, येन कृषकाणां उद्यमिनां च कृते नवीनाः अवसराः सृज्यन्ते।

तेन उक्तं यत् राज्य सर्वकारस्य नीतिभिः योजनाभिः च कृषकान् सगन्ध कृष्या संयोज्य तेषाम् आयवृद्ध्यर्थं तथा उत्तराखण्डं एरोमा हब रूपेण स्थापयितुं दिशि प्रभावी कार्यं क्रियते। कृषि मन्त्रिणा विभागीय अधिकारिणः निर्देशिताः यत् पर्वतीय दुर्गम क्षेत्रेषु तथा वन भूमिषु वन विभागेन सह समन्वयं स्थाप्य औषधीय सगन्ध पादपानां कृष्यर्थं अधिकाधिक कृषकान् संयोज्य प्रोत्साहितव्याः।

अस्मिन् अवसरे कृषि मन्त्री गणेश जोशी संगोष्ठ्यां सहभागित्वं कुर्वन्तः राष्ट्रियान्अन्ताराष्ट्रियप्रतिनिधीन् सम्मानितवान् तथा औषधीय पादपैः निर्मितानां विविध उत्पादानां प्रदर्शनीस्थलानाम् अवलोकनं कृतवान्।

अस्मिन् अवसरे राज्य औषधीय पादपकेंद्रस्य उपाध्यक्षः प्रताप सिंह पंवार, जडी बूटी सलाहकार समितेः उपाध्यक्षः सोना सजवाण, कृषि सचिव डॉ सुरेन्द्र नारायण पाण्डे, अपर सचिवो डॉ आनंद श्रीवास्तवः, सगन्ध पादप केन्द्र कैप निदेशकः डॉ नृपेन्द्र चौहान, फफाई अध्यक्षः योगेश दूबे तथा विविध देशानां अनुसन्धानकर्तारः कृषकाः च उपस्थिताः आसन्।

----------------

Hindusthan Samachar / Dheeraj Maithani