Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 11 जूनमासः (हि.स.)।
उत्तर प्रदेशस्य मीरजापुरे समाजवादीपार्टीद्वारा गुरुवासरे जमालपुर क्षेत्रस्य ग्रामसभा पिडखिर मध्ये पीडीए पृष्ठवर्तिदलित-अल्पसंख्यक जनपञ्चायतस्य आयोजनं कृतम्। कार्यक्रमे दलस्य नेतारः शोषितानां वञ्चितानां कृषकाणां श्रमिकाणां च अल्पसंख्यकानां अधिकाराणां संघर्षं अधिकं सुदृढं कर्तुं संकल्पं पुनरुक्तवन्तः तथा सामाजिक न्यायस्य विषयं प्रमुखतया उत्थापितवन्तः।
कार्यक्रमस्य मुख्य अतिथि समाजवादी मजदूर सभायाः राष्ट्रियो महासचिवः आजाद राय उक्तवान् यत् पीडीए पिछडा दलित तथा अल्पसंख्यक समाजस्य न्यायप्रदानं समाजवादी पार्टीदलस्य प्राथमिकता अस्ति। तेन उक्तं यत् दलं शोषित वञ्चित पीडित वर्गाणां स्वररूपेण स्थित्वा तेषाम् अधिकाररक्षणाय निरन्तरं संघर्षं करोति।
विशिष्ट अतिथि तथा विधानसभा अध्यक्ष राणा प्रताप सिंह कार्यकर्तृभ्यः मिशन २०२७ लक्ष्यं कृत्वा संगठनं मतदान केन्द्र स्तरपर्यन्तं सुदृढं कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् सर्वे कार्यकर्तारः पूर्णनिष्ठया सत्यनिष्ठया च ग्रामे ग्रामे गत्वा समाजवादी पार्टीदलस्य नीतयः कार्यक्रमांश्च जनतायाः समीपं प्रापयन्तु।
राणा प्रताप सिंह उक्तवान् यत् कृषकाणां दरिद्राणां श्रमिकाणां छात्राणां तथा बेरोजगार युवानां समस्याः विषये समाजवादी पार्टी मार्गात् आरभ्य विधानसभापर्यन्तं संघर्षं करिष्यति। तेन दावा कृतः यत् पिछड वर्गाणां सामाजिक न्यायस्य प्राप्तये संघर्षः समाजवादी पार्टी द्वारा सर्वदा दृढतया कृतः अस्ति तथा भविष्ये अपि क्रियते।
कार्यक्रमे ब्लॉक अध्यक्ष दिनेश यादवः, दिलीप कुमार गुप्तः, वीरेन्द्र यादव, विजय सिंह, सौरभ कुमार, रामनिवास, मंगूराम, शिवशंकर प्रसाद, प्रमोद कुमार, अजय कुमार, रामसकल, बलवंत प्रसाद, सुशीला देवी, शिवधधनी इत्येभिः सहिताः बहुसंख्यकाः दलस्य कार्यकर्तारः ग्रामीणाः च उपस्थिताः आसन्।
---------------