Enter your Email Address to subscribe to our newsletters

- दान पुण्योत्तरं डेढ़सीसेतौ दशाश्वमेध स्थिते देवगुरू बृहस्पतिमंदिरे बाबा विश्वनाथस्य मंठशडपे च उपस्थितिरंकिता
वाराणसी, 11 जूनमासः (हि.स.)। उत्तर प्रदेशस्य धार्मिक नगरी काशी नगरे पुरुषोत्तम मासस्य ज्येष्ठ अधिक मासस्य परमा एकादशी अवसरस्य निमित्तं गुरुवासरे श्रद्धायाः अद्भुतः संगमः दृष्टः। प्रातःकालात् एव सहस्रशः श्रद्धालवः पवित्र गङ्गा नद्यां स्नानार्थं विविधेषु घाटेषु आगन्तुम् आरब्धवन्तः। गङ्गास्नानस्य समये हर हर गङ्गे तथा हर हर महादेव इति जयघोषैः घाटानां वातावरणं भक्तिमयं स्थितम् आसीत्।
परमा एकादशी अवसरस्य निमित्तं श्रद्धालवः दशाश्वमेध घाट सहित अहिल्याबाई घाट, शीतला घाट, मीर घाट, पञ्चगङ्गा घाट, गाय घाट, राजघाट, अस्सी घाट, केदार घाट तथा सामने घाटेषु गङ्गास्नानं कृत्वा पुण्यम् अर्जितवन्तः। स्नान ध्यान दान पुण्यस्य अनन्तरं श्रद्धालवः दशाश्वमेध स्थित डेढ़सी पुलस्य समीपे देवगुरु बृहस्पति मन्दिरे दर्शन पूजनं कृतवन्तः तथा काशीपुराधिपतेः बाबा विश्वनाथस्य मन्दिरे अपि प्रणामं कृतवन्तः।
परमा एकादशी अवसरस्य निमित्तं श्री काशी विश्वनाथ मन्दिरे दर्शन पूजनार्थं श्रद्धालूनां दीर्घाः पङ्क्तयः स्थिताः आसन्। मन्दिर परिसरस्य तथा समीपवर्तिनां क्षेत्राणां मध्ये दिवसभरं श्रद्धालूनां आगमन गमनं प्रचलितम् आसीत्।
वाराणस्याः नक्खीघाट तपोवन निवासी कर्मकाण्डी पण्डित रविन्द्र तिवारी अवदत् यत् अधिक मासस्य कृष्ण पक्षे आगच्छन्ती एकादशी परमा, पुरुषोत्तमी अथवा कमला एकादशी इति कथ्यते। सामान्यतः संवत्सरे चतुर्विंशति एकादश्यः भवन्ति, किन्तु अधिक मासस्य आगमने तासां संख्या षड्विंशति भवति। अधिक मासस्य द्वे प्रमुखे एकादश्यौ पद्मिनी एकादशी शुक्ल पक्षे तथा परमा एकादशी कृष्ण पक्षे इति रूपेण प्रसिद्धे स्तः।
तेन उक्तं यत् परमा एकादशी कामदा एकादशी इति अपि कथ्यते। परमा शब्दस्य अर्थः सर्वोत्तमा अथवा श्रेष्ठा भवति। सनातन धर्मग्रन्थेषु अस्य व्रतस्य विशेषं महत्त्वं वर्णितम् अस्ति। मान्यता अस्ति यत् अस्य व्रतस्य प्रभावेण तथा भगवान् शिवस्य कृपया कुबेरः देवतानां कोशाध्यक्ष पदं प्राप्तवान्।
धार्मिक मान्यतानुसारं पुरुषोत्तम मासस्य परमा एकादशी अत्यन्तं पुण्यदायिनी दुर्लभा च मन्यते। शास्त्रेषु एषा पापानां नाशकारिणी तथा मोक्षप्रदायिनी एकादशी इति कथिता अस्ति। गृहस्थ जीवनं व्यतीत कुर्वतां जनानां सहित सर्वेषां वर्गाणां कृते एतत् व्रतं विशेष फलदायकं मन्यते।
--------------
Hindusthan Samachar / Dheeraj Maithani