हरियाणायां एटीएसगठनम्: पंचकूला जातो मुख्यालयः, आईजीपी करिष्यति नेतृत्वम्
चंडीगढ़, 11 जूनमासः (हि.स.)। हरियाणा सरकारेण आतंकवादस्य प्रतिकारार्थम् आतंकवाद-रोधीगणस्य गठनं कृतम् अस्ति। अधुना आतंकवादेन सम्बद्धानां प्रकरणानां अन्वेषणं सामान्य पुलिस व्यवस्थया न अपितु एटीएस द्वारा क्रियते। गृहविभागस्य अतिरिक्त मुख्य सचिव सुधीर र
हरियाणायां एटीएसगठनम्: पंचकूला जातो मुख्यालयः, आईजीपी करिष्यति नेतृत्वम्


चंडीगढ़, 11 जूनमासः (हि.स.)। हरियाणा सरकारेण आतंकवादस्य प्रतिकारार्थम् आतंकवाद-रोधीगणस्य गठनं कृतम् अस्ति। अधुना आतंकवादेन सम्बद्धानां प्रकरणानां अन्वेषणं सामान्य पुलिस व्यवस्थया न अपितु एटीएस द्वारा क्रियते। गृहविभागस्य अतिरिक्त मुख्य सचिव सुधीर राजपालस्य पक्षतः गुरुवासरे निर्गता अधिसूचना अनुसारं एटीएस अपराध अन्वेषण विभाग सीआईडी अन्तर्गत एकविशेषीकृता संस्था रूपेण स्थापितः अस्ति। एटीएसस्य मुख्यालयः पंचकूला नगरे भविष्यति तथा च अस्य नेतृत्वं पुलिस महानिरीक्षक आईजीपी स्तरस्य अधिकारी करिष्यति। एषः अधिकारी सीआईडी प्रमुखस्य माध्यमेन प्रत्यक्षरूपेण पुलिस महानिदेशक डीजीपी प्रति प्रतिवेदनं दास्यति।

अधिसूचनानुसारं एटीएस गठनस्य उद्देश्यं पुलिस सेवायाः दक्षतायाः वर्धनं, आतंकवादस्य प्रतिकारः तथा आतंकवादेन सम्बद्धानां प्रकरणानां प्रभावी निपटानस्य सुनिश्चितीकरणम् अस्ति। परिवर्तमाने सुरक्षा परिदृश्ये आतंकवादेन सम्बद्धानि जालानि, डिजिटल माध्यमानां प्रयोगः, राज्ययोः मध्ये आवागमनं तथा संवेदनशील संस्थानानां सुरक्षा इत्यादयः चुनौतीनां वर्धनम् अभवत्।

एतेषु प्रकरणेषु सामान्य पुलिस तन्त्रस्य स्थाने विशेष प्रशिक्षण, पृथक् गुप्तसूचना समन्वयः तथा शीघ्र अन्वेषण तन्त्रस्य आवश्यकता अनुभूयमाना आसीत्। राज्य सर्वकारेण एटीएस गठनस्य सह द्वयोः विशेष पुलिस थानयोः अपि अधिसूचना निर्गता अस्ति, यथा आतंकवादेन सम्बद्ध अपराधानां अन्वेषणस्य स्पष्ट अधिकार क्षेत्रं निश्चितं भवेत्। एटीएसस्य पंचकूला पुलिस थानस्य अन्तर्गत पञ्चदश जिलाः तथा गुरुग्राम पुलिस थानस्य अन्तर्गत अष्टौ जिलाः आगच्छन्ति।

पंचकूलायाः मुख्यालयत्वेन चयनस्य निर्णयः अपि रणनीतिकः मन्यते, यतः अत्र पूर्वमेव पुलिस तथा प्रशासनिक संरचनायाः प्रमुख इकाइयः विद्यमानाः सन्ति तथा उत्तर हरियाणस्य संवेदनशील क्षेत्रेषु गमनम् अपेक्षया शीघ्रं भवति। पुलिस महानिदेशक अजय सिंघल द्वारा एषः प्रस्तावः सज्जीकृत्य राज्यसर्वकाराय प्रेषितः आसीत्, यस्य अधिसूचना निर्गमनेन सह राज्यस्य सुरक्षा संरचनायै नवीनं सुदृढीकरणं प्राप्तम् अस्ति।

एटीएसस्य नेतृत्वं पुलिस महानिरीक्षक स्तरस्य अधिकारीणः द्वारा क्रियते तथा च इदं सीआईडी आदेश एवं नियन्त्रणस्य अधीनं कार्यं करिष्यति। अस्य संरचना आधुनिक सुरक्षापरिस्थितयः दृष्ट्वा बहुस्तरीया निर्मिता अस्ति। अस्मिन् एनएसजी इत्यस्य तर्जे अत्यन्त प्रशिक्षितः विशेष कमाण्डो बलः समाविष्टः भविष्यति, यः त्वरित कार्यवाहीं तथा संवेदनशील अभियानाान् सम्पादयिष्यति। गुप्तसूचना तथा संचालन शाखा आतंकवादी सङ्गठनानां पहचान, निगरानी तथा निग्रहणार्थं उत्तरदायिनी भविष्यति। आतंकवादस्य तथा तेन सम्बद्धानां अपराधानां विशेष अन्वेषणार्थम् एकः समर्पितः एटीएस पुलिस स्टेशन स्थापितः भविष्यति, यस्मिन् वैधानिक, वित्तीय अन्वेषण तथा न्यायवैज्ञानिकैककानि कार्यं करिष्यन्ति।

---

Hindusthan Samachar / Dheeraj Maithani