अमित शाहःअमरनाथ यात्रासज्जानामकरोत् समीक्षाम्
नवदिल्ली, 12 जूनमासः (हि.स.)। केंद्रीयगृहसहकारितामंत्री अमित शाह शुक्रवारदिने अमरनाथयात्रायाः तयारीणां सुरक्षाव्यवस्थायाश्च समीक्षणाय उच्चस्तरीयबैठकस्य अध्यक्षताम् अकरोत्। गृहमन्त्रिणा सम्बद्धाधिकारिणः यात्रायाः शान्तिपूर्णस्य सुरक्षितस्य सुचारुर
केंद्रीय गृह मंत्री अमित शाह शुक्रवार को एक उच्चस्तरीय बैठक की अध्यक्षता की करते हुए साथ में एनएसए अजीत डोभाल और जम्मू-कश्मीर के उपराज्यपाल मनोज सिन्हा भी मौजूद


नवदिल्ली, 12 जूनमासः (हि.स.)।

केंद्रीयगृहसहकारितामंत्री अमित शाह शुक्रवारदिने अमरनाथयात्रायाः तयारीणां सुरक्षाव्यवस्थायाश्च समीक्षणाय उच्चस्तरीयबैठकस्य अध्यक्षताम् अकरोत्। गृहमन्त्रिणा सम्बद्धाधिकारिणः यात्रायाः शान्तिपूर्णस्य सुरक्षितस्य सुचारुरूपेण च सञ्चालनस्य कृते सर्वाः आवश्यकव्यवस्थाः सुनिश्चितुं निर्देशाः दत्ताः।

बैठके राष्ट्रियसुरक्षासलाहकार अजीत डोभाल, जम्मूकश्मीरस्य उपराज्यपाल मनोज सिन्हा, सेनाप्रमुखः, सीआरपीएफ महानिदेशकः तथा गृह मन्त्रालयस्य, सुरक्षा अभिकरणानां प्रशासनस्य च अन्ये वरिष्ठाधिकारी उपस्थिताः आसन्।

बैठके अमरनाथयात्रायाः समये श्रद्धालूनां सुरक्षा, मार्गाणां निरीक्षणम्, आपदाप्रबन्धनम्, चिकित्सासुविधाः, यातायातप्रबन्धनम् तथा विभिन्नाभिकरणानां मध्ये समन्वयस्य स्थितेः समीक्षा कृता।

गृहमन्त्री सम्बद्धाधिकारिणः यात्रायाः शान्तिपूर्णस्य सुरक्षितस्य सुचारुरूपेण च सञ्चालनस्य कृते सर्वाः आवश्यकव्यवस्थाः सुनिश्चितुं पुनः निर्देशान् दत्तवान्।

सूत्राणां अनुसारं बैठके सुरक्षापरिदृश्ये, तीर्थयात्रिकाणां सुविधासु तथा संवेदनशीलक्षेत्रेषु अतिरिक्तसतर्कतायाः पालनम् इत्यादिषु विषयेषु अपि विस्तारेण चर्चा अभवत्।

सरकारस्य लक्ष्यं अस्ति यत् देशस्य सर्वेभ्यः प्रदेशेभ्यः आगच्छन्तः श्रद्धालवः सुरक्षितं निर्विघ्नं च यात्रानुभवम् प्राप्नुयुः।

उल्लेखनीयम् अस्ति यत् प्रतिवर्षं आयोज्यमानायाम् अमरनाथयात्रायाम् देशस्य विभिन्नप्रदेशेभ्यः लक्षाधिकाः श्रद्धालवः भागं गृह्णन्ति, यस्य दृष्ट्या सुरक्षायाः व्यापकाः प्रबन्धाः क्रियन्ते।

-----------

Hindusthan Samachar / Dheeraj Maithani