अमरनाथ-यात्रायाः सुरक्षायां आधुनिक-प्रौद्योगिक्याः व्यापकः उपयोगः भविष्यति, अमित-शाहेन च सज्जतायाः समीक्षा कृता
नवदेहली, १२ जूनमासः (हि.स.)। केन्द्रीय-गृह-तथा-सहकारिता-मन्त्री अमित-शाहः शुक्रवासरे अमरनाथ-यात्रायाः सुरक्षा-व्यवस्थायाः समीक्षां कृत्वा श्रद्धालूनां सुरक्षायै तथा यात्रायाः सुचारु-सञ्चालनाय व्यापक-निर्देशान् दत्तवान्। सः उक्तवान् यत् मोदी-सर्वकार
केंद्रीय गृह मंत्री अमित शाह शुक्रवार को एक उच्चस्तरीय बैठक की अध्यक्षता की करते हुए साथ में एनएसए अजीत डोभाल और जम्मू-कश्मीर के उपराज्यपाल मनोज सिन्हा भी मौजूद


नवदेहली, १२ जूनमासः (हि.स.)। केन्द्रीय-गृह-तथा-सहकारिता-मन्त्री अमित-शाहः शुक्रवासरे अमरनाथ-यात्रायाः सुरक्षा-व्यवस्थायाः समीक्षां कृत्वा श्रद्धालूनां सुरक्षायै तथा यात्रायाः सुचारु-सञ्चालनाय व्यापक-निर्देशान् दत्तवान्। सः उक्तवान् यत् मोदी-सर्वकारः अमरनाथ-यात्रायाः श्रद्धालूनां सर्वोच्च-सुरक्षां तथा सुविधाजनक-यात्रां सुनिश्चेतुं पूर्णतया प्रतिबद्धः अस्ति।

गृहमन्त्री शाहः उच्चस्तरीय-समीक्षा-सम्मेलने निर्देशितवान् यत् यात्रामार्गे केन्द्रीय-सशस्त्र-बलैः, जम्मू-कश्मीर-आरक्षक-बलैः तथा अन्य-सुरक्षा-संस्थाभिः सह समन्वितैः प्रयासैः बहुस्तरीया अभेद्या च सुरक्षा स्थापनीया। सः सुरक्षा-व्यवस्थां सुदृढीकर्तुं ड्रोन-यन्त्राणां, सीसीटीवी-निरीक्षणस्य, सर्विलांस-प्रणालीनां तथा अन्य-आधुनिक-प्रौद्योगिकीनां व्यापक-प्रयोगाय बलं दत्तवान्।

समीक्षायां सः अवदत् यत् यात्राकाले विविध-केन्द्रीय-बलानां तथा जम्मू-कश्मीर-आरक्षकस्य वरिष्ठ-अधिकारीणः शिविर-स्थानेषु तथा यात्रामार्गे व्यवस्थां निरन्तरं पर्यवेक्षन्तु। सहैव श्रद्धालूनां पञ्जीकरणं, आवास-व्यवस्था, स्वास्थ्य-सेवाः, संचार-व्यवस्था तथा आपदा-प्रबन्धन-सम्बद्धाः सर्वाः आवश्यक-सुविधाः सम्यक् सुनिश्चिताः भवन्तु।

सभायां यात्रायाः स्थानीयजनानां तथा पशूनां पञ्जीकरणे अपि विशेषं बलं दत्तम्। निर्देशितं यत् सम्बद्धेभ्यः व्यक्तिभ्यः क्यूआर-कोड-युक्त-परिचक्ष-पत्राणि प्रदीयन्ताम् तथा यात्रायां प्रयुक्तानां पशूनां स्वास्थ्य-परीक्षणाय विशेष-शिबिराणि स्थापनीयानि।

गृहमन्त्री शाहः अधिकरिणः निर्देशितवान् यत् ऋतो: स्थितेः तथा पूर्वानुमानस्य आधारेण एव श्रद्धालूनां समूह: अग्रे प्रेषणीय:। सः इदमपि उक्तवान् यत् यात्रामार्गात् अतिरिक्तं जम्मू-कश्मीरस्य अन्येषु प्रमुख-पर्यटन-स्थलेषु अपि सुदृढा सुरक्षा-व्यवस्था सुनिश्चितीकरणीया, येन श्रद्धालवः सुरक्षिते वातावरणे यात्रा-पर्यटनयोः आनन्दं लभेरन्।

सभायां राष्ट्रीय-सुरक्षा-उपदेष्टा अजीत-डोभालः, जम्मू-कश्मीर-उपराज्यपालः मनोज-सिन्हा, सेनाध्यक्षः, सीआरपीएफ-महानिदेशकः तथा गृह-मन्त्रालयस्य अन्ये वरिष्ठ-अधिकारीणः उपस्थिता: आसन्।

उल्लेखनीयम् अस्ति यत् प्रतिवर्षं आयोजितायां अमरनाथ-यात्रायां देशस्य विविध-प्रदेशेभ्यः लक्षशः श्रद्धालवः भागं गृह्णन्ति, येन कारणेन सुरक्षायाः व्यापक-प्रबन्धाः क्रियन्ते।

Hindusthan Samachar / Divya Ranjan