Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, १२ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य हिमाचलप्रदेशविभाग: शुक्रवासरे शिमलानगरे प्रबुद्धजन-सङ्गोष्ठ्याः आयोजनं करिष्यति। अस्मिन् कार्यक्रमे केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्री तथा रसायन-उर्वरक-मन्त्री जगत्-प्रकाश-नड्डा मुख्य-अतिथित्वेन मुख्य-वक्तृत्वरूपेण च सहभागं करिष्यति। सङ्गोष्ठ्याः विषयः “मोदी-सर्वकारस्य द्वादशवर्षाणि — विश्वासस्य, विकासस्य जनकल्याणस्य च” इति निर्धारितः अस्ति।
अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्र-सर्वकारेण गत-द्वादशवर्षेषु प्रवर्तितानां प्रमुख-योजनानां विकास-कार्याणां च विषये चर्चा भविष्यति। भारतीय-जनता-पक्षस्य पक्षतः आयुष्मान-भारत-योजना, जन-औषधि-योजना, उज्ज्वला-योजना, प्रधानमन्त्री-आवास-योजना इत्यादीनां जनकल्याणकारी-योजनानां प्रभावः तथा देशे अभवन् परिवर्तनानि विषये विमर्शः करिष्यते।
सङ्गोष्ठ्यां चिकित्सकाः, प्राध्यापकाः, अधिवक्तारः, उद्यमिनः, समाजसेवकाः तथा विविध-क्षेत्रेषु सम्बद्धाः प्रबुद्धजनाः सहभागं करिष्यन्ति। भारतीय-जनता-पक्षस्य कथनानुसारम् अनेन कार्यक्रमेण केन्द्र-सर्वकारस्य नीतयः, उपलब्धयः तथा भावी-दृष्टिकोणः समाजस्य बुद्धिजीवि-वर्गं प्रति प्रापयितुं प्रयासः क्रियते। कार्यक्रमस्य अवधौ विविध-विषयेषु विचार-विमर्शः भविष्यति तथा सहभागिनां विचारा: अपि संग्रहीष्यन्ते।
Hindusthan Samachar / Divya Ranjan