गूगल-स्टूडेण्ट्-एम्बेसडर-कार्यक्रमे सीयूराज-विद्यालयस्य छात्रस्य चयनम्
अजमेरनगरम्, १२ जूनमासः (हि.स.)। राजस्थान-केन्द्रीय-विश्वविद्यालयस्य सङ्गणक-विज्ञान-अभियान्त्रिकी-विद्यालयस्य अन्तर्गतं सञ्चाल्यमानस्य दत्तांश-विज्ञान-विश्लेषण-विभागस्य एम.एस.सी.-सङ्गणक-विज्ञानस्य २०२५-२७ शैक्षणिक-सत्रस्य छात्रः विनीत-यादवः प्रतिष्ठ
CEURAJ student selected for Google Student Ambassador Program


अजमेरनगरम्, १२ जूनमासः (हि.स.)। राजस्थान-केन्द्रीय-विश्वविद्यालयस्य सङ्गणक-विज्ञान-अभियान्त्रिकी-विद्यालयस्य अन्तर्गतं सञ्चाल्यमानस्य दत्तांश-विज्ञान-विश्लेषण-विभागस्य एम.एस.सी.-सङ्गणक-विज्ञानस्य २०२५-२७ शैक्षणिक-सत्रस्य छात्रः विनीत-यादवः प्रतिष्ठिते गूगल-स्टूडेण्ट्-एम्बेसडर-कार्यक्रमे चयनितः अभवत्। चयनानन्तरं तस्मै कार्यक्रमस्य आधिकारिक-प्रवेश-अनुबन्धः तथा एम्बेसडर-परिचयपत्रम् प्राप्तम्।

अस्य दायित्वस्य अन्तर्गतं सः विश्वविद्यालय-परिसरे गूगल-जेमिनी-कृत्रिमबुद्धिमत्ता सहितानां नवीन-प्रौद्योगिकीनां प्रचार-प्रसारं, छात्र-नेतृत्वयुक्तानां कृत्रिमबुद्धिमत्ता-समुदायानां निर्माणं तथा प्रौद्योगिकी-नवाचार-जागरूकतायाः संवर्धनार्थं सक्रियतया कार्यं करिष्यति।

गूगल-स्टूडेण्ट्-एम्बेसडर-कार्यक्रमस्य चयन-प्रक्रियायां नेतृत्व-क्षमता, सञ्चार-कौशलम्, नवाचार-शक्तिः तथा व्यावहारिक-क्रियान्वयनम् इत्येतेषां विशेष-महत्त्वं प्रदत्तम्। प्रथम-चरणे आयोजिते अन्तर्जाल-परिस्थिति-परीक्षणे प्रतिभागिनां रणनीतिक-चिन्तनस्य सञ्चार-कौशलस्य च मूल्याङ्कनम् अभवत्। द्वितीय-चरणे तु दृश्य-साक्षात्कार-माध्यमेन अभ्यर्थिनां प्रस्तुति-क्षमता, सृजनात्मक-चिन्तनम्, समस्या-समाधान-कौशलम्, प्रौद्योगिकी-जागरूकता तथा परिसर-अनुभवानां प्रस्तुतीकरणम् इत्यादीनां परीक्षणम् अभवत्। तत्र केवलं सप्त-दिनेषु विनाव्ययं जेमिनी-कृत्रिमबुद्धिमत्तायाः विषये जागरूकता-विस्ताराय सृजनात्मक-अभियानस्य रूपरेखा निर्मातुमपि अपेक्षितम् आसीत्।

विश्वविद्यालयस्य कुलपतिः प्रो.आनन्द-भालेरावः उक्तवान् यत् गूगल-स्टूडेण्ट-एम्बेसडर-कार्यक्रमे विनीत-यादवस्य चयनं विश्वविद्यालयस्य शैक्षणिक-उत्कृष्टतायाः तथा विद्यार्थिनां प्रतिभायाः सशक्तं प्रमाणम् अस्ति। एषा उपलब्धिः दर्शयति यत् विश्वविद्यालयस्य छात्राः वैश्विक-मञ्चेषु स्वकीयां विशिष्ट-परिचितिं निर्मातुं समर्थाः सन्ति।

विनीत-यादवः अवदत् यत् दत्तांश-विज्ञानस्य बृहद्-दत्तांश-विश्लेषणस्य च अध्ययनं तस्य विश्लेषणात्मक-चिन्तनं समस्या-समाधान-क्षमतां च विकसितवती, येन तस्मै एतदवसरं प्राप्तुं सहायता अभवत्। सः विभागस्य सर्वेषां प्राध्यापकान् प्रति कृतज्ञतां व्यक्तवान् तथा उक्तवान् यत् तेषां निरन्तर-मार्गदर्शनं प्रोत्साहनं च तस्मै एतां सिद्धिं प्राप्तुं आत्मविश्वासं प्रदत्तवत्।

दत्तांश-विज्ञान-विश्लेषण-विभागस्य विभागाध्यक्ष्या डाॅ.निष्ठा-केसवानी विनीत-यादवस्य उज्ज्वल-भविष्यस्य शुभकामनाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan