लातूरस्य कृषकेभ्यो अमिलत् नूतनजामिनी, मुख्यमंत्री निर्दिष्टवान्
मुंबई, 12 जूनमासः (हि.स.) । महाराष्ट्रस्य लातूर जनपदस्य देवणी तालुकायाः बोंबली ग्रामस्य कृषकः काशीनाथ गायकवाडः शासकीयसहायतारूपेण प्रदत्तं वृषभं रोगग्रस्तं प्राप्तवान्, तदनन्तरं सरकारस्य प्रशासनस्य च विविधस्तरेषु आलोचना आरब्धा। विषयस्य गम्भीरतां दृष
देवेंद्र फडणवीस फाईल फोटो


मुंबई, 12 जूनमासः (हि.स.) । महाराष्ट्रस्य लातूर जनपदस्य देवणी तालुकायाः बोंबली ग्रामस्य कृषकः काशीनाथ गायकवाडः शासकीयसहायतारूपेण प्रदत्तं वृषभं रोगग्रस्तं प्राप्तवान्, तदनन्तरं सरकारस्य प्रशासनस्य च विविधस्तरेषु आलोचना आरब्धा। विषयस्य गम्भीरतां दृष्ट्वा मुख्यमन्त्री देवेंद्र फडणवीसः त्वरितं संज्ञानं गृहीत्वा जिला कलेक्टर डॉ भारत बस्तेवाड इत्यस्मै निर्देशं दत्तवान् यत् काशीनाथ गायकवाडं विपणिं नीत्वा तस्य अभिरुच्यानुसारं नूतनः स्वस्थः वृषभः क्रीत्वा प्रदीयताम्। अस्य अनन्तरं कृषकः शीघ्रमेव नूतनं वृषभं प्राप्तुं आशां करोति।

वास्तवतः कृषकस्य काशीनाथ गायकवाडस्य एकः वृषभः विद्युत्पातेन मृतः आसीत्। तदनन्तरं सः स्वपत्नीं हौसाबाई इत्येतां वृषभस्य स्थाने हलयन्त्रे योजयित्वा कृषिकार्यं कुर्वन् दृश्यते स्म। अस्य घटनायाः दृश्यश्रव्यलेखः सामाजिकमाध्यमेषु प्रसारितः अभवत्, ततः सम्पूर्णे राज्ये संवेदना चिन्ता च व्यक्ता अभवत्। सरकारेण विषयस्य संज्ञानं गृहीत्वा दश जून दिनाङ्के पशुपालनविभागस्य माध्यमेन कृषकाय त्वरितसहायतारूपेण एकः वृषभः प्रदत्तः। किन्तु क्षेत्रस्य कर्षणसमये सः वृषभः सहसा उपविष्टः अभवत् तथा अनन्तरं तस्य रोगग्रस्तता सुनिश्चिताभवत्। अस्य घटनायाः दृश्यश्रव्यलेखः अपि सामाजिकमाध्यमेषु शीघ्रतया प्रसारितः।

ततः अनन्तरम् आरोपाः कृताः यत् कृषकस्य सहाय्यं कर्तुं स्थाने प्रशासनं तस्मै रोगग्रस्तं वृषभं प्रदत्तवान्, येन तस्मै अधुना वृषभस्य चिकित्सायाः व्ययः अपि वहनीयः अभवत्। विपक्षेण विविधैः सामाजिकसङ्गठनैः च एतत् प्रशासनस्य प्रमादः इति कथयित्वा सरकारस्य आलोचना कृता।

मुम्बई नगरे शुक्रवासरे द्वादश जून दिनाङ्के आयोजितायां भारतीय जनता पार्टी इत्यस्य पत्रकारसम्मेलने पत्रकारैः मुख्यमन्त्री फडणवीसः अस्मिन् विषये प्रश्नः पृष्टः। अस्य उत्तररूपेण मुख्यमन्त्री उक्तवान् यत् कतिपयदिनपूर्वं लातूरतः अत्यन्तं हृदयस्पर्शिनी वार्ता समागता आसीत्। तेन उक्तं यत् भूमिहीनः कृषकः काशीनाथ गायकवाडः अन्येषां भूमिषु भागकृषिपद्धत्या कृषिकार्यं करोति। एकस्य वृषभस्य मृत्योः अनन्तरं सः स्वपत्नीं हलयन्त्रे योजयित्वा कृषिकार्यं कर्तुं विवशः अभवत्।

मुख्यमन्त्री उक्तवान् यत् अस्य घटनायाः अनन्तरं मया त्वरितं जिलाप्रशासनाय मृतवृषभस्य क्षतिपूर्तिं दातुं तथा सहाय्यरूपेण एकं वृषभं प्रदातुं निर्देशः दत्तः आसीत्। किन्तु पश्चात् ज्ञातं यत् प्रदत्तः वृषभः उपयुक्तः न आसीत्। अतः अद्य मया जिलाधिकारिणे निर्देशः दत्तः यत् कृषकं विपणिं नीत्वा तस्य इच्छानुसारं स्वस्थः वृषभः क्रीत्वा प्रदीयताम्।

मुख्यमन्त्रिणः अस्य निर्देशस्य अनन्तरं कृषकः काशीनाथ गायकवाडः शीघ्रमेव नूतनं स्वस्थं च वृषभं प्राप्तुं मार्गः सुलभः अभवत्।

----------------------

Hindusthan Samachar / Dheeraj Maithani