इतिहास-पृष्ठेषु १३ जूनमासः - उपहार-चलच्चित्रगृहे अग्निकाण्डस्य हृदयविदारका स्मृतिः, येन समग्रः देशः स्तब्धः अभवत्
देशस्य विश्वस्य च इतिहासे १३ जूनमासस्य दिवसः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः प्रसिद्धः अस्ति, किन्तु दिल्ली-निवासिनां कृते अयं दिवसः तादृशीं दुःखदां त्रासदीं स्मारयति या असंख्य-परिवाराणां सुखानि हरितवती। १३ जून १९९७ तमे वर्षे दक्षिण-दिल्लीस्थिते
इतिहास-पृष्ठेषु १३ जूनमासः - उपहार-चलच्चित्रगृहे अग्निकाण्डस्य हृदयविदारका स्मृतिः, येन समग्रः देशः स्तब्धः अभवत्


देशस्य विश्वस्य च इतिहासे १३ जूनमासस्य दिवसः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः प्रसिद्धः अस्ति, किन्तु दिल्ली-निवासिनां कृते अयं दिवसः तादृशीं दुःखदां त्रासदीं स्मारयति या असंख्य-परिवाराणां सुखानि हरितवती। १३ जून १९९७ तमे वर्षे दक्षिण-दिल्लीस्थिते उपहार-चलच्चित्रगृहे भीषण-अग्निकाण्डः अभवत्, यस्मिन् ५९ जनाः मृत्युम् अगच्छन्, १०० अधिकाः जनाः च आहताः अभवन्।

तस्मिन् दिने सायंकाले बहुसंख्यकाः जनाः स्वपरिवारैः मित्रैः सह लोकप्रियां युद्धाधारितां ‘बॉर्डर’ नामिकां चलच्चित्रं द्रष्टुं समागताः आसन्। चलच्चित्रस्य प्रदर्शनकाले सहसा चलच्चित्रगृह-परिसरे अग्निः प्रज्वलिता। अल्पेनैव कालेन धूम्र: सम्पूर्णे प्रेक्षागृहे प्रसृतः, अनेकाः प्रेक्षकाः च बहिर्गमनमार्गं न प्राप्तवन्तः।

अन्वेषणेन ज्ञातं यत् चलच्चित्रगृहे सुरक्षा-मानदण्डानां सम्यक् पालनं न कृतम् आसीत्। आपत्कालीन-निर्गमन-व्यवस्था, अग्निशमन-प्रबन्धः तथा सुरक्षा-व्यवस्थापनम् इत्येषु गम्भीराः न्यूनताः आसन्, येन दुर्घटना अधिका भयावहा अभवत्। अधिकांश-जनाः धूमस्य प्रभावात् श्वासावरोधेन च मृत्युम् उपगताः।

उपहार-अग्निकाण्डेन भारते सार्वजनिक-स्थलानां सुरक्षा, अग्निशमन-मानदण्डाः तथा आपदा-प्रबन्धनम् इत्यादीनां विषये व्यापकः विमर्शः प्रारब्धः। ततः परं चलच्चित्रगृहेषु अन्येषु सार्वजनिक-भवनेषु च सुरक्षा-नियमाः अधिक-कठोरतया प्रवर्तिताः।

महत्त्वपूर्णाः घटनाः

१२९० — खिलजी-वंशस्य प्रमुखः जलालुद्दीनफिरोजशाह: खिलजी दिल्ली-सिंहासने समारूढः; तेन सह गुलाम-वंशस्य शासनस्य अन्तः अभवत्।

१७५७ — बंगाल-बिहार-उड़ीसा-प्रदेशानां नवाबेन सिराजुद्दौला सह युद्धाय रॉबर्ट क्लाइव मुर्शिदाबाद-दिशं प्रति प्रस्थितः।१८८८ — अमेरिकी-काङ्ग्रेसेन श्रम-विभागस्य गठनं कृतम्।१९३२ — ब्रिटेन-देशेन दीर्घकालीन-नियन्त्रणानन्तरं स्वेज नहर मिस्रदेशाय समर्पिता।१९४० — ऊधमसिंह लन्दन-नगरे फाँसी-दण्डेन दण्डितः।१९४३ — सुभाषचन्द्र बोस जर्मनीदेशात् टोक्यो-नगरं प्राप्तः।१९९३ — किम कैंपबेल कनाडादेशस्य प्रथमा महिला-प्रधानमन्त्री अभवत्।१९९७ — दिल्लीस्थिते उपहार-चलच्चित्रगृहे अग्निकाण्डे ५९ जनाः मृताः, १०० अधिकाः आहताः च अभवन्।२००१ — नेपाल-राजपरिवार-हत्याकाण्डे दीपेन्द्रस्य प्रेयसी देवयानी राणा अन्वेषण-आयोगस्य समक्षं साक्ष्यं दातुं न स्वीकृतवती।२००२ — संयुक्त राज्य अमेरिका एण्टि-बालिस्टिक-मिसाइल-सन्धेः बहिः निर्गतः।२००३ — डेनियल अखमितोव कज़ाखस्तानस्य नूतनः प्रधानमन्त्री नियुक्तः।२००४ — जोसेफ़ कबीला विरुद्धं तख्तापलट-प्रयत्नः विफलः अभवत्।२००५ — ईरानदेशः २००९ वर्षात् आरभ्य २५ वर्षाणि भारतदेशाय द्रवीकृत-प्राकृतिक-वायोः निर्याताय सम्मतः।२००५ — पॉप-गायकः माइकलजैक्सन बाल-यौन-उत्पीडन-प्रकरणे निर्दोषः घोषितः।२००६ — नाइजीरिया तथा कैमरून सीमा-विवाद-विषये सन्धिं कृतवन्तौ।२००८ — चीन तथा ताइवान विमान-सेवा-सम्बन्धे ऐतिहासिक-सन्धिं कृतवन्तौ।

जन्म

१९०९ — ई.एम.एस. नम्बूदरीपाद:, प्रमुखः मार्क्सवादी-नेता।१९२३ — प्रेमधवन, हिन्दी-चलच्चित्र-जगतः प्रसिद्धः गीतकारः।१९४४ — बान की मून, संयुक्त-राष्ट्र-संघस्य अष्टमः महासचिवः।१९६४ — पीयूषगोयल:।१९९४ — दीपिका कुमारी, भारतीय-महिला-धनुर्धारिणी।

निधनम्

१९२२ — नानकभील:।१९६७ — विनायकपांडुरंगकरमरकर:, भारतस्य प्रसिद्धः मूर्तिकारः।१९९४ — राजकुमार: जयचंद्रसिंह:।१९९९ — मेजरमनोजतलवार:।१९९९ — मेजर विवेक: गुप्ता।२००८ — कीर्ति चौधरी।२०१२ — मेहदी हसन, प्रसिद्धः ग़ज़ल-गायकः।२०१६ — मुद्राराक्षस:, प्रसिद्धः लेखकः, उपन्यासकारः, नाटककारः, आलोचकः व्यङ्ग्यकारः च।

Hindusthan Samachar / Divya Ranjan