Enter your Email Address to subscribe to our newsletters

बिलासपुरम्, १२ जूनमासः (हि.स.)। अन्ताराष्ट्रिय-योग-दिवसस्य २०२६ वर्षीयस्य सफल-आयोजनार्थं बिलासपुर-जनपद-प्रशासनेन व्यापकाः सज्जा: प्रारब्धाः। भारत-सर्वकारस्य आयुष-मन्त्रालयेन अस्य वर्षस्य विषयः “स्वस्थ-वृद्धावस्थायै योगः” इति निर्धारितः अस्ति। तदनुसारेण जनपदस्य सर्वेभ्यः सर्वकारीय-विभागेभ्यः, शैक्षणिक-संस्थाभ्यः, स्थानीय-विभागेभ्यः तथा सामाजिक-सङ्घटनेभ्यः अधिकाधिक-जनसहभागितां सुनिश्चितीकर्तुम् आग्रहः कृतः अस्ति। अयं विषयः स्वस्थ-सक्रिय-जीवनशैल्यां योगस्य महत्त्वपूर्णां भूमिकां रेखाङ्कयति।
जनपदाधिकारी सञ्जय-अग्रवालः जनपदवासिनः प्रति आवाहनं कृत्वा उक्तवान् यत् योगः केवलं एकदिवसीयः कार्यक्रमः नास्ति, अपितु स्वस्थ-जीवनस्य आधारः अस्ति। तेन सर्वेभ्यः विभागेभ्यः, संस्थाभ्यः, विद्यार्थिभ्यः, कर्मचारिभ्यः तथा सामान्य-नागरिकेभ्यः योग-दिवस-कार्यक्रमेषु सक्रिय-सहभागितां सुनिश्चितीकर्तुम् अनुरोधः कृतः।
आयुष-मन्त्रालयस्य निर्देशानुसारं १४ जून २०२६ दिनाङ्के प्रातः ६:१५ वादनात् ७:३५ वादनपर्यन्तम् अन्तर्जाल-योग-सत्रस्य आयोजनं भविष्यति, यस्मिन् अधिकतम-सहभागिता सुनिश्चितीकरणस्य लक्ष्यं निर्धारितम् अस्ति। अस्य कार्यक्रमस्य माध्यमेन विशाल-जनसहभागितया विश्व-अभिलेख-स्थापनस्य प्रयासः अपि करिष्यते। योग-सत्रे सहभागितुम् इच्छुकाः नागरिकाः टोल-फ्री-सङ्ख्यायां 1800-315-7008 इति क्रमाङ्के मिस्ड-कॉल दत्त्वा स्वपञ्जीकरणं कर्तुं शक्नुवन्ति। जनपद-प्रशासनेन सर्वेभ्यः विभागेभ्यः संस्थाभ्यः च अस्य विषये व्यापक-प्रचार-प्रसारं कर्तुं तथा अधिकाधिक-जनान् संयोजयितुं निर्देशाः प्रदत्ताः।
एतदतिरिक्तं २१ जून २०२६ दिनाङ्के अन्तर्राष्ट्रीय-योग-दिवसस्य अवसरे जनपदस्य सर्वेषु क्षेत्रेषु सामूहिक-योग-कार्यक्रमाः आयोजयिष्यन्ते। जनपदस्य मुख्य-कार्यक्रमः बहतराई-स्थिते क्रीडाङ्गणे भविष्यति। आयुष-मन्त्रालयेन विकसिते योग-सङ्गम-पटले सर्वकारीय-असर्वकारीय-शैक्षणिक-सामाजिक-संस्थाः स्वकार्यक्रमाणां पञ्जीकरणं कर्तुं शक्नुवन्ति तथा कार्यक्रमानन्तरं विवरणं छायाचित्राणि च अपलोड् इति कर्तुम् अपि अर्हन्ति।
जनपदाधिकारी सञ्जय-अग्रवालः उक्तवान् यत् अन्ताराष्ट्रिय-योग-दिवसस्य आयोजनं जनान्दोलनस्य स्वरूपं दातुं सर्वाभिः संस्थाभिः नागरिकैः च संयुक्तरूपेण कार्यं करणीयम्, येन बिलासपुर-जनपदस्य सहभागिता राज्यीय-राष्ट्रीय-स्तरेषु आदर्शरूपेण प्रतिष्ठां प्राप्नुयात्। १४ जूनस्य अन्तर्जालीय-योग-सत्रात् आरभ्य २१ जूनस्य मुख्य-कार्यक्रम-पर्यन्तं योगस्य प्रति जागरूकता-सहभागिता-वर्धनाय विशेष-अभियानम् अपि सञ्चालयिष्यते।
Hindusthan Samachar / Divya Ranjan