Enter your Email Address to subscribe to our newsletters

नवदेहली, १२ जूनमासः (हि.स.)। ओमान-तटस्य समीपे पलाउ-ध्वजधारिण्यां तैल-वाहक-नौकायां ‘एमटी सेटेबेलो’ इत्यस्यां क्षेपणास्त्र-आक्रमणानन्तरं केन्द्र-सर्वकारेण भारतीय-नाविकानां तेषां परिवारजनानां च त्वरित-सहायतार्थं चतुर्विंशति-होरापर्यन्तं सक्रियाः सहायता-दूरभाष-सङ्ख्याः प्रकाशिताः।
केन्द्रीय-बन्दरगाह-जहाजरानी-जलमार्ग-मन्त्रालयेन प्रकाशिताः सहायता-सङ्ख्याः एताः सन्ति— व्हाट्सएप्-आह्वान-सङ्ख्या: +918657549760, वैकल्पिक-सङ्ख्ये: +91 2222613606, +91 8657549752, शिकायत-निवारणार्थं देशीय-निःशुल्क-सङ्ख्या: 1800-889-7768, अन्ताराष्ट्रिय-निःशुल्क-सङ्ख्या: +1-888-988-0256, तथा सूचना-निवारणार्थं व्हाट्सएप्-आह्वान-सङ्ख्या: +91 8655856830।
मन्त्रालयं स्वस्य जहाजरानी-महानिदेशालयस्य माध्यमेन होर्मुज-जलडमरूमध्यस्य, ओमान-उपसागरस्य तथा तदुपान्तस्थितानां संवेदनशील-समुद्रीय-क्षेत्राणां गतिविधीः चतुर्विंशति-होरां यावत् सूक्ष्मतया निरीक्षते।
जूनमासस्य १० दिनाङ्के ओमानदेशस्य सोहर-बन्दरगाहात् प्रायः विंशति-समुद्रीय-मील-दूरे उत्तरपूर्व-दिशि स्थितायां ‘एमटी सेटेबेलो’ नाम्नि मध्यम-दूरीय-तैल-वाहक-नौकायां क्षेपणास्त्र-आक्रमणम् अभवत्। अस्यां नौकायां कुलम् अष्टाविंशतिः चालक-दल-सदस्याः आसन्, येषु चतुर्विंशतिः भारतीय-नागरिकाः आसन्। अस्मिन् दुःखद-घटने त्रयः भारतीय-नाविकाः मृत्युम् अगच्छन्, अन्ये सर्वे चालक-दल-सदस्याः सुरक्षितरूपेण उद्धृताः।
जहाजरानी-महानिदेशालयेन संघर्ष-प्रभावित-समुद्रीय-क्षेत्रेषु सञ्चरन्तीषु भारतीय-विदेशीय-ध्वजधारिषु नौकासु कार्यरताः सर्वे भारतीय-नाविकाः अत्यधिक-सावधानतां पालनीयाम् इति निर्देशिताः।
सर्वकारेण नौका-सञ्चालकानां जलयान-निर्माणीनां च कृते अपि कठोरः परामर्शः प्रदत्तः यत् ते समुद्रीय-सुरक्षा-नियमाः कठोरतया पालयेयुः। तथा केन्द्र-सर्वकारेण अन्ताराष्ट्रिय-अधिकारिभिश्च समये समये निर्गतानां निर्देशानां विषये सतर्काः भवेयुः। कस्यापि अप्रिय-घटनायाः आपत्कालीन-स्थितेर्वा विषये जहाजरानी-महानिदेशालयं त्वरितं सूचितव्यमिति उक्तम्, येन परिस्थितेः शीघ्रं समाधानं कर्तुं शक्येत।
भारत-सर्वकारेण स्पष्टतया उक्तं यत् भू-राजनैतिक-अनिश्चिततायाः अस्मिन् कठिन-काले सः देशस्य नाविकानां तेषां परिवाराणां च सह दृढतया तिष्ठति तथा तेषां सुरक्षा-कल्याणयोः सुनिश्चिती-करणाय पूर्णतया प्रतिबद्धः अस्ति।
Hindusthan Samachar / Divya Ranjan