चंडीगढ़म् : विकसित भारतस्य विकसित हरियाणायाःच निर्माणे प्रत्येकं नागरिकस्य भूमिका महत्वपूर्णा: डा. अर्चना गुप्ता
भाजपाप्रदेशाध्यक्षा डॉ अर्चना गुप्ता पञ्चकूलायां स्वच्छताभियाने सहभागिता कृतवती। वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सङ्कल्पस्य दृढीकरणाय आह्वानं कृतवती। स्वच्छताभियानस्य अन्तर्गत प्रदेशाध्यक्षा डॉ अर्चना गुप्ता स्वच्छताकर्मचारिणः सम्मानितवती।
पंचकूला के सेक्टर-5 स्थित स्नेहा मंदिर में आयोजित स्वच्छता अभियान के दाैरान लाेगाें काे शीतल जल वितरित करतीं व स्वच्छता के लिए झाड़ू लगाती भाजपा प्रदेश अध्यक्ष डा. अर्चना गुप्ता।


भाजपाप्रदेशाध्यक्षा डॉ अर्चना गुप्ता पञ्चकूलायां स्वच्छताभियाने सहभागिता कृतवती।

वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सङ्कल्पस्य दृढीकरणाय आह्वानं कृतवती।

स्वच्छताभियानस्य अन्तर्गत प्रदेशाध्यक्षा डॉ अर्चना गुप्ता स्वच्छताकर्मचारिणः सम्मानितवती।

चंडीगढ़, 12 जूनमासः। भाजपाप्रदेशाध्यक्षा डॉ अर्चना गुप्ता शुक्रवासरे पञ्चकूलायाः सेक्टर ५ स्थिते स्नेहामन्दिरपरिसरे आयोजिते स्वच्छताभियाने सहभागिता कृत्वा स्वयमेव मार्जनीं सञ्चालयित्वा स्वच्छतायाः सन्देशं प्रदत्तवती। तेन सह सा एकं वृक्षं मातुः नाम्ना अभियाने अन्तर्गत आयोजिते वृक्षारोपणकार्यक्रमे अपि सहभागिता कृत्वा पर्यावरणसंरक्षणस्य हरितभविष्यस्य च सङ्कल्पस्य दृढीकरणाय आह्वानं कृतवती। अस्मिन् समये सा मिष्टान्नानि अपि वितरितवती तथा जनैः सह संवादं कृत्वा केन्द्रराज्यसर्वकारयोः जनकल्याणकारीयोजनानां सूचना अपि संसूचितवती। स्वच्छताभियानस्य समये डॉ गुप्ता स्वच्छताकर्मचारिणः शालाभिः सम्मानितवती।

डॉ अर्चना गुप्ता अवदत् यत् स्वच्छता केवलं अभियानं नास्ति अपितु जीवनस्य संस्कारः अस्ति। सा अवदत् यत् स्वच्छता एव सेवा तथा स्वच्छता एव संस्कारः अस्ति। सा कार्यकर्तृभ्यः सामान्यनागरिकेभ्यः च स्वपरिसराणि स्वच्छानि स्थापयितुं सङ्कल्पग्रहणस्य आह्वानं कृतवती।

वृक्षारोपणकार्यक्रमस्य समये सा अवदत् यत् वृक्षारोपणं केवलं कार्यक्रमः नास्ति अपितु आगामिसंततेः सुरक्षितभविष्यस्य दायित्वम् अस्ति। सा अवदत् यत् पर्यावरणसंरक्षणाय प्रत्येकेन व्यक्तिना अधिकाधिकाः वृक्षाः रोपणीयाः। एकं वृक्षं मातुः नाम्ना अभियानं प्रकृतेः प्रति सम्मानस्य भावनात्मकसम्बन्धस्य च प्रतीकम् अस्ति।

डॉ अर्चना गुप्ता अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदीस्य नेतृत्वे गत द्वादशवर्षेषु भारते विकासस्य सुशासनस्य पारदर्शितायाः उत्तरदायित्वस्य च नवीनः अध्यायः लिखितः अस्ति। सा अवदत् यत् अद्य भारतं पूर्वापेक्षया अधिकं सशक्तं समृद्धं सुरक्षितं च राष्ट्ररूपेण विश्वमञ्चे प्रतिष्ठितम् अस्ति। सा अवदत् यत् दरिद्रकल्याणनीतिभिः कोटिशः जनानां जीवने सकारात्मकपरिवर्तनम् आगतम् अस्ति।

प्रधानमन्त्री आवासयोजनायाः अन्तर्गत चत्वारि कोट्यधिकानि दरिद्रकुटुम्बानि दृढगृहाणि प्राप्तवन्ति। उज्ज्वलायोजनायाः माध्यमेन एकादशकोट्यधिकाः एलपीजी संयोजनाः वितरिताः सन्ति, यदा च स्वच्छभारताभियानस्य अन्तर्गत कोटिशः शौचालयानां निर्माणं कृत्वा स्वच्छतां जनान्दोलनरूपेण परिवर्तितम् अस्ति।

अस्मिन् अवसरे विधायकः शक्ति रानी शर्मा, प्रदेशोपाध्यक्षा बंतो कटारिया, महापौरः श्याम लाल बंसल, पूर्वविधानसभाध्यक्षः ज्ञान चंद गुप्ता, जिलाप्रभारी रवि बतान, जिलामहामन्त्री भूवन जीत सिंह, पूर्वमहापौरः कुलभूषण गोयल, ओम प्रकाश देवीनगर तथा अन्ये कार्यकर्तारः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani