Enter your Email Address to subscribe to our newsletters

रायपुरम् 12 जूनमासः (हि.स.)।
अन्ताराष्ट्रियो बालश्रमो निषेधदिवसस्य अवसरे महिला एवं बाल विकास मन्त्री लक्ष्मी राजवाडे उक्तवती यत् प्रत्येकस्मै बालकाय सुरक्षितं सम्मानजनकं च सुखमयं च बाल्यजीवनं प्रदातुं समाजस्य सामूहिका उत्तरदायिता अस्ति। बालश्रमः बालकानां अधिकाराणां हननम् अस्ति, यः तेषां शिक्षा, स्वास्थ्य तथा सर्वाङ्गीणविकासस्य अवसरान् हरति।
मन्त्री राजवाडे अद्य शुक्रवासरे उक्तवती यत् बालकाः देशस्य भविष्यं सन्ति। तेषां हस्तेषु पुस्तकानि, क्रीडा तथा सृजनात्मकाः अवसराः भवितव्याः, न तु श्रमस्य भारः। कस्यापि बालकस्य श्रमकार्ये नियोजनं तस्य स्वप्नानां सम्भावनानां च सीमाङ्कनस्य समानम् अस्ति। बालश्रमः केवलं सामाजिकदोषः एव न, अपितु विधानतः दण्डनीयम् अपराधम् अपि अस्ति।
सा उक्तवती यत् राज्यसरकारः बालकानां शिक्षा, सुरक्षा तथा संरक्षणस्य अधिकारं प्रदातुं निरन्तरं कार्यं करोति। बालश्रमः, बालतस्करी तथा बालशोषणादयः कुप्रथाः विरुद्धं कठोरकार्यवाही क्रियमाणा अस्ति। किन्तु अस्य अभियानस्य सफलीकरणाय समाजस्य प्रत्येकस्य नागरिकस्य सक्रियभागिता आवश्यकास्ति।
मन्त्री राजवाडे नागरिकान् आहूतवती यत् यदि कश्चन बालकः अवैधरूपेण कार्ये नियोज्यते, शिक्षायाः वञ्चितः क्रियते अथवा तेन सह कस्यापि प्रकारस्य शोषणं दुर्व्यवहारः वा क्रियते, तर्हि तस्य सूचना त्वरितं पुलिस, चाइल्ड हेल्पलाइन १०९८, महिला एवं बाल विकास विभागं अथवा स्थानीयप्रशासनं प्रति दातव्या।
सा उक्तवती यत् संवेदनशीलः जागरूकः च समाजः एव बालकेभ्यः सुरक्षितं बाल्यं उज्ज्वलं च भविष्यं दातुं शक्नोति। आगच्छामः, वयं सर्वे मिलित्वा एतत् संकल्पं गृह्णीमः यत् कस्यापि बालकस्य बाल्यं श्रमे न, अपितु शिक्षा, सुरक्षा तथा अवसरैः सह विकसितं भवेत्, येन ते स्वानि स्वप्नानि साकारयित्वा देशस्य समाजस्य च निर्माणे महत्त्वपूर्णं योगदानं दातुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani