खूँटी-जनपदे सहायता-सुविधा-केन्द्राणि स्थापितानि, निःशुल्का वैधानिकी सहायता प्रदास्यते
खूँटीनगरम्, १२ जूनमासः (हि.स.)। जिला-वैधानिक-सेवा-प्राधिकरणेन जनपदे चत्वारि वरिष्ठ-नागरिक-सहायता-सुविधा-केन्द्राणि स्थापितानि सन्ति। एष: प्रयत्न: प्रधान-जनपद-सत्र-न्यायाधीशेन सह प्राधिकरणाध्यक्षस्य रसिकेश-कुमारस्य मार्गदर्शने कृता। डीएलएसए-अनुसार
Ddk


खूँटीनगरम्, १२ जूनमासः (हि.स.)। जिला-वैधानिक-सेवा-प्राधिकरणेन जनपदे चत्वारि वरिष्ठ-नागरिक-सहायता-सुविधा-केन्द्राणि स्थापितानि सन्ति।

एष: प्रयत्न: प्रधान-जनपद-सत्र-न्यायाधीशेन सह प्राधिकरणाध्यक्षस्य रसिकेश-कुमारस्य मार्गदर्शने कृता।

डीएलएसए-अनुसारं संयुक्त-राष्ट्र-सङ्घेन प्रतिवर्षं जूनमासस्य १५ दिनाङ्के विश्व-वरिष्ठजन-दुर्व्यवहार-जागरूकता-दिवसः आचर्यते। एतस्य परिप्रेक्ष्ये राष्ट्रीय-वैधानिक-सेवा-प्राधिकरणेन सम्पूर्णः जूनमासः वरिष्ठ-नागरिकाणां अधिकार-रक्षण-न्याय-प्राप्तेः सुनिश्चितीकरणाय समर्पितः अस्ति।

जनपदे बैङ्क-ऑफ-इण्डिया-खूँटी-शाखायाम्, प्रखण्ड-कार्यालये, पिपरटोली-स्थिते वृद्धाश्रमे तथा डीएलएसए-खूँटी-कार्यालयस्य अग्र-कार्यालये वरिष्ठ-नागरिक-सहायता-सुविधा-केन्द्राणि सञ्चालितानि सन्ति। प्रत्येकस्मिन् केन्द्रे द्वौ द्वौ पारा-वैधानिक-स्वयंसेवकौ नियुक्तौ स्तः, ययोः एका महिला-स्वयंसेविका अनिवार्यरूपेण सम्मिलिता अस्ति।

एते स्वयंसेवकाः वरिष्ठ-नागरिकाणां समस्याः श्रुत्वा तेषां कृते आवश्यकां वैधानिकीं तथा शासकीयां सहायतां प्रददति।

एतेषु केन्द्रेषु माता-पितृ-वरिष्ठ-नागरिक-भरणपोषण-कल्याण-अधिनियमः, २००७ इत्यस्य अन्तर्गत-विषयेषु निःशुल्कं वैधानिक-परामर्शं प्रदीयते। तदतिरिक्तं पेंशन-योजना, स्वास्थ्य-लाभाः, आयुष्मान-भारत-योजना, बीमा-सुरक्षा, दिव्याङ्ग-सहायता, विधवा-सहायता-योजना इत्यादीनां विविध-लोककल्याणकारी-योजनानां लाभ-प्राप्तावपि सहायता प्रदीयते।

अपरञ्च वरिष्ठ-नागरिकाः साइबरवंचना, ओटीपी-कपटाचारः, मिथ्या-केवाईसी-दूरभाष-आह्वानानि तथा डिजिटल-बैङ्किङ्ग-वंचनाभ्यः रक्षणस्य विषये जागरूकाः क्रियन्ते।

डीएलएसए इत्यनेन सूचितं यत् प्राप्तेषु आवेदनपत्रेषु सम्बन्धित-विभागैः सह समन्वयं स्थापयित्वा शीघ्र-कार्यवादिता सुनिश्चितीक्रियते।

एतानि सर्वाणि केन्द्राणि जूनमासस्य अन्तपर्यन्तं कार्यरतानि भविष्यन्ति। अपि च जूनमासस्य १५ दिनाङ्के विश्व-वरिष्ठजन-दुर्व्यवहार-जागरूकता-दिवसस्य अवसरः निमित्तीकृत्य विशेष-वैधानिक-जागरूकता-कार्यक्रमाः तथा वैधानिक-सहायता-शिविराणि अपि आयोज्यन्ते।

डीएलएसए इत्यनेन जनपदस्य सर्वेभ्यः वरिष्ठ-नागरिकेभ्यः तेषां परिवारजनभ्यश्च एतेषां केन्द्राणां लाभं ग्रहीतुं विनम्र-आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan