मुख्यमंत्री हेमंत सोरेनः 29 जून दिनांके 1,018 शिक्षकेभ्यः सर्पयिष्यन्ते नियुक्तिपत्राणि
रांची, 12 जूनमासः (हि.स.)। झारखण्डे शिक्षकाणां नियुक्तिप्रक्रियायाः अधिकं त्वरणं कुर्वन् मुख्यमन्त्री हेमन्त सोरेन महोदयः जूनमासस्य एकोनत्रिंशे दिने एकसहस्र अष्टादश चयनिताभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदास्यति। विद्यालयीयशिक्षा साक्षरताविभागस्य पक्
मुख्यमंत्री फाइल फोटो


रांची, 12 जूनमासः (हि.स.)। झारखण्डे शिक्षकाणां नियुक्तिप्रक्रियायाः अधिकं त्वरणं कुर्वन् मुख्यमन्त्री हेमन्त सोरेन महोदयः जूनमासस्य एकोनत्रिंशे दिने एकसहस्र अष्टादश चयनिताभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदास्यति। विद्यालयीयशिक्षा साक्षरताविभागस्य पक्षतः प्रोजेक्ट भवन सभागारे आयोजितः अयं कार्यक्रमः राज्यसर्वकारस्य रोजगारसृजनस्य रिक्तपदानां पूरणस्य च दिशि एकः महत्त्वपूर्णः प्रयासः इति मन्यते।

झारखण्ड कर्मचारी चयन आयोगेन चयनितानां एतेषाम् अभ्यर्थिनां नियुक्तिः प्राथमिकविद्यालयेषु प्रथमकक्षातः पञ्चमकक्षापर्यन्तं तथा मध्यविद्यालयेषु षष्ठकक्षातः अष्टमकक्षापर्यन्तं भविष्यति। आयोगस्य अनुशंसानन्तरं सर्वेषां चयनिताभ्यर्थिनां मण्डलस्तरे परामर्शप्रक्रिया सम्पन्ना अस्ति। नियुक्तिपत्रप्राप्तेः अनन्तरं ते राज्यस्य विभिन्नेषु राजकीयविद्यालयेषु कार्यभारं स्वीकुर्वन्ति।

मुख्यमन्त्री हेमन्त सोरेन पूर्वमपि चयनितशिक्षकेभ्यः नियुक्तिपत्राणि प्रदत्तवान् अस्ति। गतमासे तेन त्रिशत एकोनविंशति अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितानि आसन् येषु प्राथमिकविद्यालयानां अष्टनवतिः शताधिकाः तथा मध्यविद्यालयानां एकविंशत्यधिकशतं सहायकाचार्याः आसन्। राज्यसर्वकारः क्रमशः शिक्षकनियुक्तिप्रक्रियां अग्रे नयति येन विद्यालयेषु शिक्षकाणां न्यूनता दूरीकर्तुं शक्येत।

अपरतः झारखण्ड कर्मचारी चयन आयोगेन माध्यमिकाचार्य संयुक्त प्रतिस्पर्धा परीक्षायाः अन्तर्गतं नियुक्तिप्रक्रियाम् अग्रे नीत्वा षट् विषयेषु माध्यमिकाचार्य विशेषशिक्षाचार्य पदयोः कृते चतुर्शत् षट्षष्टि अभ्यर्थिनः अभिलेखसत्यापनाय चयनिताः सन्ति। आयोगस्य अनुसारम् अन्यविषयाणाम् अभ्यर्थिनां अभिलेखपरीक्षणम् अपि शीघ्रमेव आरभ्यते।

चयनितानाम् अभ्यर्थिनां प्रमाणपत्राणां परीक्षणं राँची नगरे नामकुमस्थे जेएसएससी कार्यालये जूनमासस्य अष्टादशे नवदशे च दिने द्वयोः पाल्योः भविष्यति। आयोगेन अभ्यर्थिभ्यः सर्वैः मूलप्रमाणपत्रैः आवश्यकदस्तावेजैः सह निर्धारितसमये उपस्थितुं निर्देशः प्रदत्तः।

आयोगेन स्पष्टं कृतम् यत् ये अभ्यर्थिनः अपरिहार्यकारणेन अष्टादशे नवदशे वा दिने उपस्थिताः न भवितुं शक्नुवन्ति तेभ्यः जूनमासस्य चतुर्विंशे दिने अन्तिमः अवसरः प्रदीयते। ततः अनन्तरं कापि शिथिलता न भविष्यति तथा अभिलेखसत्यापनं न कुर्वताम् अभ्यर्थिनां दावा स्वतः निरस्तः मन्यते।

उल्लेखनीयम् अस्ति यत् राज्ये सहायकाचार्याणां कुलम् षड्विंशतिसहस्र एकपदाधिक पदेषु नियुक्तिप्रक्रिया प्रचलति। अधुना यावत् प्रायः दशसहस्र अभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदत्तानि सन्ति। तथापि योग्याभ्यर्थिनां न्यूनतया तथा केषाञ्चन तकनीकी कारणानां कारणेन अद्यापि बहूनि पदानि रिक्तानि सन्ति। सरकारः तथा आयोगः शेषपदानां पूरणस्य दिशि निरन्तरं प्रयत्नशीलौ स्तः। आगामिनियुक्तिभिः राजकीयविद्यालयेषु शिक्षकाणाम् उपलब्धिः वर्धिष्यते तथा शैक्षणिकव्यवस्था अधिका दृढा भविष्यति।-----------

Hindusthan Samachar / Dheeraj Maithani