Enter your Email Address to subscribe to our newsletters

रामगढ़म्, 12 जूनमासः (हि.स.)।
जिल्लाधिकारी ऋतुराजः शुक्रवासरे जनतादरबारम् आयोजितवान्। अस्मिन् अवसरे सः जनपदस्य विभिन्नखण्डेभ्यः, पञ्चायतेभ्यः तथा ग्रामीणक्षेत्रेभ्यः आगतानां १६ सामान्यजनानां समस्याः गम्भीरतया अशृणोत्। जिलाधिकारी सर्वेषु आवेदनपत्रेषु त्वरितं संज्ञानं गृहीत्वा सम्बन्धितविभागीयाधिकारिभ्यः आवश्यकानि निर्देशानि प्रदत्तवान्। सहैव प्रकरणानां निष्पादनाय समयबद्धकार्यवाहीं कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् जनपदप्रशासनं सामान्यजनानां समस्यायाः त्वरितसमाधानाय अन्तिमपङ्क्तिस्थितव्यक्तेः पर्यन्तं सर्वकारीययोजनानां लाभस्य प्रापणाय च पूर्णतया प्रतिबद्धम् अस्ति।
जनतादरबारे मुख्यतया सामाजिकसुरक्षायाः निवृत्तिवेतनयोजनानां च सम्बद्धाः समस्याः, अबुआ आवासयोजना तथा तस्याः सम्बन्धिताः शिकायताः, भूमिविवादाः, दाखिलखारिज तथा दखलदिहानी प्रकरणानि, राशनकार्डे नामसंयोजनम्, मार्गनिर्माणं सहिताः अन्याः जनसमस्याः समुपस्थिताः अभवन्। प्राप्तेषु आवेदनपत्रेषु कार्यवाहीं कुर्वन् जिलाधिकारी सम्बन्धिताधिकारिणः निर्देशितवान् यत् सर्वेषां प्रकरणानां निष्पक्षतया परीक्षणं कृत्वा निर्धारितकालसीमायाः अन्तर्गत गुणयुक्तं निष्पादनं सुनिश्चितं क्रियते, येन सामान्यनागरिकाः स्वसमस्यासमाधानाय अनावश्यकतया कार्यालयानां परिभ्रमणं न कुर्वन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani