निर्माय सज्जीभविष्यति प्रखंड कार्यालयः, शीघ्रं भविष्यति उद्घाटनम्
रामगढ़म्, 12 जूनमासः (हि.स.)। रामगढप्रखण्डसहाञ्चलकार्यालयस्य नूतनं भवनं निर्माय सिद्धं जातम्। शीघ्रमेव प्रखण्डकार्यालयम् अञ्चलकार्यालयं च नूतनभवने स्थानान्तरितं भविष्यतः। पुरातनभवनस्य जीर्णशीर्णावस्थायां प्राप्तत्वात् तत्र नूतनभवनस्य निर्माणं कृ
बनकर तैयार हुआ प्रखंड सह अंचल कार्यालय


नए अंचल कार्यालय का भवन


रामगढ़म्, 12 जूनमासः (हि.स.)।

रामगढप्रखण्डसहाञ्चलकार्यालयस्य नूतनं भवनं निर्माय सिद्धं जातम्। शीघ्रमेव प्रखण्डकार्यालयम् अञ्चलकार्यालयं च नूतनभवने स्थानान्तरितं भविष्यतः। पुरातनभवनस्य जीर्णशीर्णावस्थायां प्राप्तत्वात् तत्र नूतनभवनस्य निर्माणं कृतम्। शुक्रवासरे नूतनकार्यालयस्य निर्माणकार्यमपि सम्पूर्णं जातम्। भवननिर्माणविभागस्य पक्षतः निर्मितस्य अस्य भवनस्य हस्तान्तरणस्य सिद्धता आरब्धा अस्ति। अस्मिन् भवने पुनः प्रखण्डकार्यालयस्य अञ्चलकार्यालयस्य च सञ्चालनं भविष्यति।

जिलाधिकारी ऋतुराजेन नूतनभवनस्य उद्घाटनं कर्तुमपि निर्देशः दत्तः अस्ति। आगामिसप्ताहे भवनस्य उद्घाटनं कर्तुम् जिला प्रशासनस्य मनः जातम्। तस्य सिद्धता आरब्धा अस्ति। प्रखण्डकार्यालयस्य अञ्चलकार्यालयस्य च कृते निर्मिते द्विस्तरीयभवने भण्डारकक्षोऽपि निर्मितः अस्ति। उभयोः कार्यालययोः सञ्चालनं उत्तमरीत्या भवेत् इति हेतोः अनेकाः कक्षाः अपि निर्मिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani