मोदी-सर्वकारस्य द्वादश-वर्षाणि विकसित-भारतस्य सुदृढ-आधार:, स्वर्णिम-वर्षाणि : जे.पी.नड्डा
शिमलानगरम्, १२ जूनमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-रसायन-उर्वरक-मन्त्री तथा भारतीय-जनता-पक्षस्य पूर्व-राष्ट्रीयाध्यक्षः जगत्-प्रकाश-नड्डा उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी-नेतृत्वे केन्द्रीय-सर्वकारस्य द्वादश-वर्षाणि देशस्य इत
जेपी नड्डा सोमवार को शिमला में कार्यक्रम के दौरान।


शिमलानगरम्, १२ जूनमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-रसायन-उर्वरक-मन्त्री तथा भारतीय-जनता-पक्षस्य पूर्व-राष्ट्रीयाध्यक्षः जगत्-प्रकाश-नड्डा उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी-नेतृत्वे केन्द्रीय-सर्वकारस्य द्वादश-वर्षाणि देशस्य इतिहासे स्वर्णिम-अक्षरैः लिखितानि भविष्यन्ति। सः अवदत् यत् एषः कालः केवलं कस्यचित् सर्वकारस्य कार्यकालः न, अपितु विकसित-भारतस्य सुदृढ-आधारशिलां स्थापयितुं परिवर्तनकारी-वर्षाणां प्रतीकम् अस्ति।

भारतीय-जनता-पक्षेण आयोजितस्य “१२ वर्षाणि विश्वासस्य, विकासस्य, जनकल्याणस्य” अभियानस्य अन्तर्गतं शुक्रवासरे शिमलानगरे आयोजिते बुद्धिजीवी-सम्मेलने नड्डा उक्तवान् यत् प्रधानमन्त्री-मोदी-वर्येण राजनीतेः दिशा तथा संस्कृतिः उभे परिवर्तिते। सः अवदत् यत् पूर्वं राजनीति जातिवादेन, परिवारवादेन, तुष्टीकरणेन च भ्रष्टाचारपर्यन्तं सीमिता आसीत्, किन्तु मोदी-सर्वकारेण राजनीतिः सेवायाः, सुशासनस्य, उत्तरदायित्वस्य च माध्यमं कृतम्।

नड्डा उक्तवान् यत् प्रधानमन्त्री-मोदी-नेतृत्वे देशेन अनेके ऐतिहासिक-निर्णया: दृष्टा:। जम्मू-कश्मीरात् धारा-३७० निष्कासनम्, अयोध्यायां श्रीराम-मन्दिर-निर्माणम्, मुस्लिम-महिलानां त्रि-तलाकात् मुक्तिः तथा नागरिकता-संशोधन-अधिनियमस्य कार्यान्वयनम् इत्यादयः निर्णयाः देशस्य दिशा-दशां परिवर्तितवन्तः।

सः अवदत् यत् विकास-जनकल्याण-नीतीनां कारणात् भारतीय-जनता-पक्षः निरन्तरं तृतीयवारं जनसमर्थनं प्राप्तवान्। देशस्य अधिकांशाः नागरिकाः अद्य भाजपा तथा एनडीए-शासित-राज्येषु निवसन्ति, यत् सरकार-नीतीषु जनविश्वासस्य प्रमाणम् अस्ति।

हिमाचल-प्रदेशस्य उल्लेखं कुर्वन् नड्डा उक्तवान् यत् केन्द्रीय-सर्वकारेण प्रदेशाय विकासस्य नवीन-गति: प्रदत्ता। बिलासपुरे एम्स-स्थापनम्, चम्बा-हमीरपुर-नाहन-नगरयोः चिकित्सा-महाविद्यालय-निर्माणम् तथा राष्ट्रिय-राजमार्ग-परियोजनानां विस्तारः प्रदेशस्य स्वरूपं परिवर्तितवान्।

सः सूचितवान् यत् प्रधानमन्त्री ग्राम-मार्ग-योजनायाः अन्तर्गतं हिमाचले १४,४०० किलोमीटर-पर्यन्तं ग्रामीण-मार्ग-नेटवर्क विकसितम्। जल-जीवन-अभियान-योजनायाः अन्तर्गतं सर्वेषां गृहाणां पेयजल-व्यवस्था प्राप्ता। उज्ज्वला-योजनया प्रायः दीर्घ-लक्ष-परिवाराः गैस-संयोजनं प्राप्तवन्तः, प्रधानमन्त्रि-आवास-योजनया च एक-लक्षाधिक-परिवाराः लाभान्विताः। स्वच्छ-भारत-अभियान-अन्तर्गतं प्रायः द्विलक्ष-शौचालयानां निर्माणं कृतम्।

नड्डा उक्तवान् यत् गत-द्वादश-वर्षेषु देशेन आधारभूत-संरचना, स्वास्थ्यम्, रक्षा, प्रौद्योगिकी तथा अन्तरिक्ष-क्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः। चन्द्रयान-३-सफलता, सेमीकण्डक्टर-निर्माणम्, डिजिटल-इण्डिया, वन्दे-भारत-रेलयानानि तथा आधुनिक-परिवहन-व्यवस्था भारताय नवीनं परिचयं दत्तवन्ति।

सः अवदत् यत् अद्य भारतदेश: आत्मविश्वासेन विश्व-मञ्चे स्वकीयं स्थानं सुदृढं कुर्वन् अस्ति। प्रधानमन्त्री मोदी-नेतृत्वे देशः अमृतकालं प्रति अग्रसरः अस्ति तथा विकसित-भारत-संकल्पस्य सिद्ध्यर्थं भारतीय-जनता-पक्षस्य प्रत्येकं कार्यकर्ता समर्पितभावेन कार्यं कुर्वन् अस्ति।

Hindusthan Samachar / Divya Ranjan