Enter your Email Address to subscribe to our newsletters




इन्दौरनगरम्, १२ जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे ९ जूनतः १३ जूनपर्यन्तं आयोजितस्य ब्रिक्स-शिखर-सम्मेलन-२०२६ अन्तर्गतं त्रिदिनपर्यन्तं ब्रिक्स-देशानां प्रतिनिधीनां सभाया: अनन्तरं अद्य शुक्रवासरात् कृषि-कार्यसमूहस्य महत्त्वपूर्ण-अन्ताराष्ट्रियसम्मेलनस्य अन्तर्गतं ब्रिक्स-देशानां कृषिमन्त्रिणां द्विदिवसीया सभा आरब्धा। केन्द्रीय-कृषिमन्त्री शिवराजसिंह-चौहान-महोदयस्य अध्यक्षतायां सम्पन्नायां अस्यां सभायां कृषिः, खाद्य-सुरक्षा तथा च सतत-कृषि-विकासाय संयुक्त-वैश्विक-सहकार्यविषये सार्थकी चर्चा कृता।
सभायां केन्द्रीय-कृषिमन्त्रिणा चौहान-महोदयेन प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य नेतृत्वे “वसुधैव कुटुम्बकम्” इति मन्त्रेण सह वैश्विक-सहभागिताविषये बलं दत्तम्। सः सभायां लघु-सीमान्त-कृषकाणां सशक्तीकरणं, प्राकृतिक-कृषिः तथा च कृषि-क्षेत्रस्य साझा-चुनौत्यस्य समाधानाय सहयोग-समन्वययोः विषये भारतस्य दृष्टिकोणं समुपस्थापितवान्।
केन्द्रीय-कृषिमन्त्री अवदत् यत् भारतं “वसुधैव कुटुम्बकम्” इति भावनया विश्वं एकं परिवारं मन्यते, तथा च प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे शान्ति-समन्वय-सहभागिता-आधारित-विकासाय कार्यं कुर्वन् अस्ति। सः उक्तवान् यत् जलवायु-परिवर्तनम्, प्राकृतिक-संसाधनानां उपरि वर्धमानं बलम्, तथा च विपण-अनिश्चितता इत्यादीनां समस्यानां सर्वाधिकं प्रभावः लघु-सीमान्त-कृषकेषु भवति। अतः ब्रिक्स-देशैः मिलित्वा एतेषां समाधानं अन्वेष्टव्यम्। यदि लघु-कृषकाः सशक्ताः भवन्ति तर्हि वैश्विक-खाद्य-सुरक्षा अपि सुदृढा भविष्यति इति सः अवदत्।
सः अवदत् यत् गत-दशके भारतस्य कृषि-क्षेत्रे प्रतिशततया ४.५ प्रतिशतं वार्षिक-वृद्धिः अभिलेखिता। देशस्य खाद्यान्न-उत्पादनं प्रायः ३७६ मिलियन-टन-पर्यन्तं प्राप्तम् अस्ति। गोधूम-उत्पादनं ११८ मिलियन-टनं, उद्यान-उत्पादनं च ३७८ मिलियन-टनात् अधिकं जातम्। तथा च मत्स्य-उत्पादनम् अपि १९ मिलियन-टनात् अधिकं अभवत्। सः अवदत् यत् देशस्य प्रायः ८७ प्रतिशत-कृषकाः लघु-सीमान्त-श्रेण्याम् आगच्छन्ति। प्रधानमन्त्रि-कृषक-सम्मान-निधिः, किसान-क्रेडिट-कार्ड-योजना, सस्य-बीमा-योजना इत्यादिभिः योजनाभिः कृषकेभ्यः आर्थिक-सुरक्षा सहाय्यं च दीयते।
सः प्राकृतिक-कृषेः प्रोत्साहनस्य आवश्यकता प्रतिपाद्य अवदत् यत् रासायनिक-उर्वरकाणां सन्तुलित-उपयोगः, मृदा-गुणवत्तायाः संरक्षणं च अत्यावश्यकम्। सः “खेत-बचाओ-अभियानम्” इत्यस्य उल्लेखं कृत्वा अवदत् यत् तेन माध्यमेन कृषकेभ्यः वैज्ञानिक-सूचनाः नवीन-प्रौद्योगिकीश्च प्राप्यन्ते। सः अवदत् यत् स्वयं-सहायता-समूहानां माध्यमेन महिलाः कृषि-क्षेत्रे सम्बद्धेषु व्यवसायेषु नेतृत्वं कुर्वन्ति। तथा च “ड्रोन-दीदी” इत्यादयः उपक्रमाः ग्रामीण-क्षेत्रेषु प्रौद्योगिकी-परिवर्तनस्य उदाहरणानि सन्ति। सः युवानः कृषि-क्षेत्रे नवाचारः, डिजिटल-प्रौद्योगिकीश्च माध्यमेन अग्रे आगन्तुं आह्वानं कृतवान्।
केन्द्रीय-कृषिमन्त्री इन्दौरनगरे आयोज्यमानायाः ब्रिक्स-कृषिमन्त्रिणां सभायां पूर्वं वृक्षारोपणं कृतवान्। सः अवदत् यत् भारतस्य प्राचीन-परम्परा शिक्षयति यत् सुखमय-जीवनस्य मार्गः समृद्ध-क्षेत्रैः सुरक्षित-पर्यावरणेन च एव गच्छति। यावत् अस्माकं मृदा पर्यावरणं च सुरक्षितं तावत् अस्माकं भविष्यं अपि सुरक्षितम्। अतः आधुनिक-कृष्या सह प्रकृतेः संतुलनं अपि सुदृढं कुर्मः। प्रतिदिनं एकं वृक्षं अवश्यं रोपयेम इति सः आह्वानं कृतवान्।
Hindusthan Samachar / Divya Ranjan