मध्यप्रदेशस्य इन्दौरनगरे ब्रिक्स-देशानां कृषिमन्त्रिणां द्विदिवसीया सभा आरब्धा
इन्दौरनगरम्, १२ जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे ९ जूनतः १३ जूनपर्यन्तं आयोजितस्य ब्रिक्स-शिखर-सम्मेलन-२०२६ अन्तर्गतं त्रिदिनपर्यन्तं ब्रिक्स-देशानां प्रतिनिधीनां सभाया: अनन्तरं अद्य शुक्रवासरात् कृषि-कार्यसमूहस्य महत्त्वपूर्ण-अन्ताराष्ट्र
इंदौर में ब्रिक्स देशों के कृषि मंत्रियों की बैठक शुरू होने से पहले ग्रुप फोटो


इंदौर में ब्रिक्स सम्मेलन में भाग लेते विभिन्न देशों के प्रतिनिधि


ब्रिक्स सम्मेलन में केन्द्रीय कृषि मंत्री चौहान विदेशी प्रतिनिधि का स्वागत करते हुए


ब्रिक्स बैठक से पहले शिवराज सिंह ने इंदौर में किया पौधरोपण


इन्दौरनगरम्, १२ जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे ९ जूनतः १३ जूनपर्यन्तं आयोजितस्य ब्रिक्स-शिखर-सम्मेलन-२०२६ अन्तर्गतं त्रिदिनपर्यन्तं ब्रिक्स-देशानां प्रतिनिधीनां सभाया: अनन्तरं अद्य शुक्रवासरात् कृषि-कार्यसमूहस्य महत्त्वपूर्ण-अन्ताराष्ट्रियसम्मेलनस्य अन्तर्गतं ब्रिक्स-देशानां कृषिमन्त्रिणां द्विदिवसीया सभा आरब्धा। केन्द्रीय-कृषिमन्त्री शिवराजसिंह-चौहान-महोदयस्य अध्यक्षतायां सम्पन्नायां अस्यां सभायां कृषिः, खाद्य-सुरक्षा तथा च सतत-कृषि-विकासाय संयुक्त-वैश्विक-सहकार्यविषये सार्थकी चर्चा कृता।

सभायां केन्द्रीय-कृषिमन्त्रिणा चौहान-महोदयेन प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य नेतृत्वे “वसुधैव कुटुम्बकम्” इति मन्त्रेण सह वैश्विक-सहभागिताविषये बलं दत्तम्। सः सभायां लघु-सीमान्त-कृषकाणां सशक्तीकरणं, प्राकृतिक-कृषिः तथा च कृषि-क्षेत्रस्य साझा-चुनौत्यस्य समाधानाय सहयोग-समन्वययोः विषये भारतस्य दृष्टिकोणं समुपस्थापितवान्।

केन्द्रीय-कृषिमन्त्री अवदत् यत् भारतं “वसुधैव कुटुम्बकम्” इति भावनया विश्वं एकं परिवारं मन्यते, तथा च प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे शान्ति-समन्वय-सहभागिता-आधारित-विकासाय कार्यं कुर्वन् अस्ति। सः उक्तवान् यत् जलवायु-परिवर्तनम्, प्राकृतिक-संसाधनानां उपरि वर्धमानं बलम्, तथा च विपण-अनिश्चितता इत्यादीनां समस्यानां सर्वाधिकं प्रभावः लघु-सीमान्त-कृषकेषु भवति। अतः ब्रिक्स-देशैः मिलित्वा एतेषां समाधानं अन्वेष्टव्यम्। यदि लघु-कृषकाः सशक्ताः भवन्ति तर्हि वैश्विक-खाद्य-सुरक्षा अपि सुदृढा भविष्यति इति सः अवदत्।

सः अवदत् यत् गत-दशके भारतस्य कृषि-क्षेत्रे प्रतिशततया ४.५ प्रतिशतं वार्षिक-वृद्धिः अभिलेखिता। देशस्य खाद्यान्न-उत्पादनं प्रायः ३७६ मिलियन-टन-पर्यन्तं प्राप्तम् अस्ति। गोधूम-उत्पादनं ११८ मिलियन-टनं, उद्यान-उत्पादनं च ३७८ मिलियन-टनात् अधिकं जातम्। तथा च मत्स्य-उत्पादनम् अपि १९ मिलियन-टनात् अधिकं अभवत्। सः अवदत् यत् देशस्य प्रायः ८७ प्रतिशत-कृषकाः लघु-सीमान्त-श्रेण्याम् आगच्छन्ति। प्रधानमन्त्रि-कृषक-सम्मान-निधिः, किसान-क्रेडिट-कार्ड-योजना, सस्य-बीमा-योजना इत्यादिभिः योजनाभिः कृषकेभ्यः आर्थिक-सुरक्षा सहाय्यं च दीयते।

सः प्राकृतिक-कृषेः प्रोत्साहनस्य आवश्यकता प्रतिपाद्य अवदत् यत् रासायनिक-उर्वरकाणां सन्तुलित-उपयोगः, मृदा-गुणवत्तायाः संरक्षणं च अत्यावश्यकम्। सः “खेत-बचाओ-अभियानम्” इत्यस्य उल्लेखं कृत्वा अवदत् यत् तेन माध्यमेन कृषकेभ्यः वैज्ञानिक-सूचनाः नवीन-प्रौद्योगिकीश्च प्राप्यन्ते। सः अवदत् यत् स्वयं-सहायता-समूहानां माध्यमेन महिलाः कृषि-क्षेत्रे सम्बद्धेषु व्यवसायेषु नेतृत्वं कुर्वन्ति। तथा च “ड्रोन-दीदी” इत्यादयः उपक्रमाः ग्रामीण-क्षेत्रेषु प्रौद्योगिकी-परिवर्तनस्य उदाहरणानि सन्ति। सः युवानः कृषि-क्षेत्रे नवाचारः, डिजिटल-प्रौद्योगिकीश्च माध्यमेन अग्रे आगन्तुं आह्वानं कृतवान्।

केन्द्रीय-कृषिमन्त्री इन्दौरनगरे आयोज्यमानायाः ब्रिक्स-कृषिमन्त्रिणां सभायां पूर्वं वृक्षारोपणं कृतवान्। सः अवदत् यत् भारतस्य प्राचीन-परम्परा शिक्षयति यत् सुखमय-जीवनस्य मार्गः समृद्ध-क्षेत्रैः सुरक्षित-पर्यावरणेन च एव गच्छति। यावत् अस्माकं मृदा पर्यावरणं च सुरक्षितं तावत् अस्माकं भविष्यं अपि सुरक्षितम्। अतः आधुनिक-कृष्या सह प्रकृतेः संतुलनं अपि सुदृढं कुर्मः। प्रतिदिनं एकं वृक्षं अवश्यं रोपयेम इति सः आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan