जसपाल राणा इत्यस्य निधने राष्ट्रपतिर्मुर्मुः, लोकसभाध्यक्षेण खेल मंत्रिणा प्रकटितः शोकः
नव दिल्ली, 12 जूनमासः (हि.स.)।द्रौपदीमुर्मुः, ओमबिरला तथा युवकार्यक्रम एवं खेलमन्त्री डॉ मनसुख माण्डवियासहितैः अनेकैः मन्त्रिभिः शुक्रवासरे पूर्वः अन्ताराष्ट्रियः लक्ष्यवेधकः प्रशिक्षकः च जसपाल राणा इत्यस्य निधनस्य विषये शोकः व्यक्तः। राष्ट्रपतिः
पूर्व भारतीय निशानेबाज एवं कोच जसपाल राणा (फाइल फोटो)


नव दिल्ली, 12 जूनमासः (हि.स.)।द्रौपदीमुर्मुः, ओमबिरला तथा युवकार्यक्रम एवं खेलमन्त्री डॉ मनसुख माण्डवियासहितैः अनेकैः मन्त्रिभिः शुक्रवासरे पूर्वः अन्ताराष्ट्रियः लक्ष्यवेधकः प्रशिक्षकः च जसपाल राणा इत्यस्य निधनस्य विषये शोकः व्यक्तः।

राष्ट्रपतिः एक्स माध्यमे अवदत्, ‘‘जसपाल राणा इत्यस्य निधनस्य वार्ता अत्यन्तं दुःखदायिनी अस्ति। सः एकः विख्यातः लक्ष्यवेधकः आसीत्, येन स्वस्य उत्कृष्टप्रदर्शनस्य माध्यमेन देशस्य नाम उज्ज्वलितम्। विश्वस्य विविधासु लक्ष्यवेधनस्पर्धासु बहूनि पदकानि प्राप्तवान् जसपाल राणा भारतीयक्रीडाक्षेत्रे स्वस्य विशिष्टां परिचितिं स्थापितवान्। एकः क्रीडापटुः मार्गदर्शकः च इति रूपेण सः युवप्रतिभाः संवर्ध्य क्रीडाक्षेत्रे महत्त्वपूर्णं योगदानं कृतवान्। तस्य समर्पणम्, अनुशासनम् उत्कृष्टप्रदर्शनस्य प्रति च तस्य निष्ठा आगामिन्यः संततयः क्रीडापटून् सदा प्रेरयिष्यति।’’

ओम बिरला अवदत् यत् जसपाल राणा बहुवर्षपर्यन्तं स्वस्य लक्ष्यवेधनकौशलेन विश्वपटलस्य उपरि भारतस्य ध्वजम् उन्नीतवान्। एशियन गेम्स २००६ इति स्पर्धायां त्रिभिः स्वर्णपदकैः सह तस्य उत्कृष्टं प्रदर्शनं सदा स्मरणीयं भविष्यति। जसपालस्य देहावसानम् भारतीयक्रीडाजगतः कृते गम्भीरा क्षतिः अस्ति।

डॉ माण्डविया अवदत् यत् एकः विजेता क्रीडापटुः उत्कृष्टः मार्गदर्शकः च इति रूपेण देशस्य कृते जसपाल राणा इत्यस्य महान् योगदानम् एकां प्रेरणादायिनीं विरासत् त्यक्तवान्।

रक्षामन्त्री राजनाथ सिंहः अवदत् यत् जसपालः उत्कृष्टः क्रीडापटुः प्रशिक्षकः च आसीत्, अपि च अत्यन्तं सरलः सहजः अतिशयेन सद्भावयुक्तः मनुष्यः आसीत्। भारते लक्ष्यवेधनस्य क्रीडारूपेण लोकप्रियतायाः वृद्धौ तस्य महती प्रभावशालिनी भूमिका आसीत्।

केन्द्रीय स्वास्थ्य एवं परिवारकल्याणमन्त्री जेपी नड्डा अवदत् यत् जसपालः स्वस्य उत्कृष्टक्रीडाजीवने अनेकाः अन्ताराष्ट्रियाः उपलब्धयः प्राप्त्वा भारतस्य गौरवं विश्वपटलस्य उपरि प्रतिष्ठापितवान्।

केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान अवदत् यत् स्वस्य असाधारणप्रतिभया, अनुशासनेन तथा समर्पणेन जसपालः लक्ष्यवेधने देशाय अनेकानि गौरवपूर्णानि क्षणानि दत्तवान्। क्रीडापटुरूपेण तस्य उपलब्धयः प्रशिक्षकरूपेण नवीनप्रतिभानां विकासः च तस्य योगदानं सदा स्मरणीयं भविष्यति। तस्य निधनम् भारतीयक्रीडाजगतः कृते एषा एका अपूरणीयक्षतिः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani