Enter your Email Address to subscribe to our newsletters


अजमेरनगरम्, १२ जूनमासः (हि.स.)। तीर्थराजे पुष्करे ज्येष्ठमासस्य उपलक्ष्ये सरोवरे पञ्चतीर्थ-स्नानार्थं श्रद्धालूनां महान् सम्मर्द: दृश्यते। कमला-एकादश्याः पावन-अवसरे अपि तीव्र-उष्णतायां श्रद्धाया: प्रभावः स्पष्टतया दृष्टः। गुरुवासरात् आरभ्य शुक्रवासरस्य प्रातःकाले प्रदोषकालपर्यन्तं पुष्कर-सरोवरे लक्षाधिक-पञ्चाशत्सहस्रं श्रद्धालवः श्रद्धया स्नानं कृत्वा पूजार्चनां विधाय जगत्पितुः ब्रह्मणः मन्दिरस्य दर्शनम् अकुर्वन्। अनेन सह अधिकमासीय-पञ्चतीर्थ-स्नानस्य शुभारम्भः अभवत्।
प्रातःकालादेव नगरे श्रद्धालूनां विशाल-समागमः दृष्टः। बहुसंख्यकाः आस्थावन्तः पवित्रे पुष्कर-सरोवरे स्नानं कृत्वा पुण्यलाभम् अर्जितवन्तः। स्नानानन्तरं ते सरोवरस्य परिक्रमां कृत्वा ब्रह्मा-मन्दिरेण सह प्रमुख-देवालयानां दर्शनम् अकुर्वन्।
अस्मिन् वर्षे नगरपरिषदः तथा आरक्षकविभागस्य पक्षतः उत्कृष्टाः व्यवस्थाः कृताः। स्नानार्थिनां भीडया घाटेषु देवालयेषु च विशेष-सम्मर्द: अभवत्। प्रातःकालादेव श्रद्धालवः स्नानं कर्तुम् आरब्धवन्तः, यत् सायंकालपर्यन्तं निरन्तरम् अचलत्। ये तीर्थयात्रिण: विभिन्न-धर्मशालासु आश्रमेषु च अवसन्, ते अपि शुक्रवासरस्य प्रातःकाले पवित्र-सरोवरे स्नानं कृत्वा पूजार्चनां विधाय ब्रह्मा-मन्दिरस्य दर्शनम् अकुर्वन्।
ज्येष्ठमासस्य कमला-एकादश्यां पुष्कर-सरोवरे स्नानस्य विशेषं महत्त्वं मन्यते। अस्मिन् दिने भगवान् शीतल-जलेन ज्येष्ठाभिषेकं प्राप्नोति इति धार्मिक-मान्यता वर्तते। अतः पुण्यलाभार्थं समीपवर्ती-प्रदेशेभ्यः सहस्रशः श्रद्धालवः आगत्य सरोवरे स्नानं कृत्वा सुख-समृद्ध्यर्थं पूजार्चनां कृतवन्तः।
प्रातःकालादेव सरोवरस्य घट्टेषु, देवालयेषु, विपणिषु च श्रद्धालूनां महान् सम्मर्द: आसीत्। विभिन्न-स्थानेषु व्यापारिभिः तथा दानशील-जनैः पानीय-जलस्य व्यवस्था कृता। केषुचित् स्थानेषु दुग्ध-शर्बत-इत्यस्य अपि वितरणं कृतम्।
कमला-एकादश्याः विशेष-स्नानस्य अवसरं दृष्ट्वा नगरपरिषद्-प्रशासनेन यात्रिणां सुविधार्थं समुचिताः व्यवस्थाः कृताः। आयुक्तस्य जनार्दन-शर्मणः निर्देशनानुसारं रात्रौ प्रमुख-घट्टेषु कार्पेट-इत्यादीनि विस्तारितानि, उष्णतायाः निवारणार्थं छायार्थं वितानानि स्थापितानि, विद्युत्-व्यवस्था तथा स्वच्छता-व्यवस्था च सुनिश्चितीकृता। आयुक्तस्य उपस्थितौ घट्टानां सोपानेषु सञ्चितं शैवलम् अपि निष्कासितम्। नगरपरिषदः एतादृशीं व्यवस्थां प्रथमवारं कृतवती, यस्य सर्वैः प्रशंसा कृता।
अपरतः मुख्य-गौ-घाटे स्नानसमये जले सर्पस्य आगमनात् आकस्मिकः कोलाहलः अभवत्। सरोवरे स्नानं कुर्वन्तः श्रद्धालवः भयात् इतस्ततः धावितवन्तः। अस्मिन् समये एका महिला-श्रद्धालुः सर्पदष्टा अभवत्। ताम् अविलम्बेन पुष्कर-चिकित्सालयं नीत्वा उपचारः कारितः।
Hindusthan Samachar / Divya Ranjan