Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, १२ जूनमास: (हि.स.)। राष्ट्रपतिः मुर्मू द्विदिवसीय-भ्रमणार्थम् उत्तराखण्डं प्राप्तवती। जौलीग्रांट-विमानस्थानके राज्यपालः लेफ्टिनेंट-जनरल गुरमीत-सिंहः, मुख्यमन्त्री पुष्कर-सिंह-धामी, कैबिनेट-मन्त्री मदन-कौशिकः, मुख्यसचिवः आनन्द-बर्द्धनः, आरक्षक-महानिदेशकः दीपम-सेठः च पुष्पगुच्छं समर्प्य तस्याः स्वागतं कृतवन्तः।
निर्धारित-कार्यक्रमानुसारं राष्ट्रपति: अद्य देहरादून-स्थितं राष्ट्रपति-निकेतनं गमिष्यति। तत्र सा राष्ट्रपति-आशियान-परिसरे १३२-एकड़-परिमिते विशाल-क्षेत्रे विकसितस्य अत्याधुनिक-राष्ट्रपति-उद्यानस्य निर्माण-तथा विकास-कार्याणां अवलोकनं करिष्यति।
राष्ट्रपति द्रौपदी मुर्मू १३ जून-दिनाङ्के भारतीय-सैन्य-अकादम्याः पासिङ्ग-आउट्-संचलने भागं ग्रहीष्यति। देहरादून-स्थिते भारतीय-सैन्य-अकादम्यां आयोजितायां स्प्रिङ्ग-टर्म २०२६ पासिङ्ग-आउट्-संचलने सा मुख्यातिथिरूपेण उपस्थास्यति। सा संचलनस्य निरीक्षणं करिष्यति तथा नव-प्रशिक्षितान् कैडेट-इत्येतान् नमनं करिष्यति।
राष्ट्रपतेः उत्तराखण्ड-भ्रमणं दृष्ट्वा देहरादून-नगरे सुरक्षाव्यवस्था अधिका दृढा-कृता अस्ति तथा यातायात-नियमनं ड्रोन-प्रतिबन्धः च नियुक्ताः सन्ति।
अस्मिन् वर्षे आईएमए-पासिङ्ग-आउट-संचलनं ऐतिहासिकं मन्यते। प्रथमवारं आईएमए-संस्थायाः महिला-कैडेट-इत्येतानां प्रथमः समूहः प्रशिक्षणं पूर्णं कृत्वा भारतीय-सेनायां अधिकारीरूपेण सम्मिलिष्यति। संचलने ५१५ कैडेट-इत्येते उत्तिर्णा: भविष्यन्ति, येषु ४८१ भारतीयाः तथा ३४ मित्र-देशीय-कैडेट इत्येते सन्ति।
आईएमए-संचलनं भारतीय-सेनायाः अत्यन्तं प्रतिष्ठित-सैन्य-परम्परासु एका मन्यते, यत्र सफल-प्रशिक्षणानन्तरं कैडेट अधिकारीरूपेण सेनायां कमीशन इति प्राप्नुवन्ति।
Hindusthan Samachar / Divya Ranjan