Enter your Email Address to subscribe to our newsletters

-ओबीसी विद्यार्थिनां कृते वरदानरूपा जाता पूर्वदशम छात्रवृत्तियोजना, ८.८ लक्षाधिकाः विद्यार्थिनः लाभान्विताः।
आजमगढ, गाजीपुर, जौनपुर तथा कुशीनगर इत्येते जनपदाः अपि शीर्ष पञ्च जनपदेषु समाविष्टाः।
लखनऊ 12 जूनमासः (हि. स.)।
उत्तरप्रदेशसर्वकारस्य छात्रवृत्तियोजनाः लक्षशः कुटुम्बानां कृते आशायाः नवीनकिरणरूपेण प्रकटिताः सन्ति। पिछडावर्गस्य पूर्वदशमछात्रवृत्तियोजनायाः अन्तर्गत लाभार्थिनां सङ्ख्यायाः दृष्ट्या प्रयागराजजनपदः सम्पूर्णप्रदेशे प्रथमस्थाने स्थितः अस्ति। अत्र ३९,८९२ छात्रछात्राभ्यः छात्रवृत्तेः लाभः प्राप्तः अस्ति। एषा सङ्ख्या प्रदेशे सर्वाधिकास्ति तथा दर्शयति यत् सर्वकारस्य योजनानां लाभः विस्तृतरूपेण पात्रविद्यार्थिनः पर्यन्तं प्राप्यते।
जौनपुरे ३१ सहस्राधिकेभ्यः छात्रेभ्यः प्राप्ता छात्रवृत्तिः
प्रदेशे प्रयागराजस्य अनन्तरम् आजमगढजनपदः द्वितीयस्थाने स्थितः अस्ति, यत्र ३५,७८५ छात्रछात्राणां बैंकलेखेषु छात्रवृत्तेः धनराशिः प्रेषिता अस्ति। तथैव गाजीपुरे ३२,८७२ छात्रछात्राः लाभान्विताः अभवन्, यदा च जौनपुरे ३१,४७५ तथा कुशीनगरे २६,१३७ विद्यार्थिनः छात्रवृत्तिं प्राप्तवन्तः। एवमेव वर्षे २०२५–२६ पूर्वदशमछात्रवृत्तियोजनायाः अन्तर्गत ८.८८ लक्षाधिकाः छात्रछात्राः लाभान्विताः अभवन्। तेषु ४ लक्ष ५८ सहस्राधिकाः छात्राः, ४ लक्ष ३० सहस्राधिकाः छात्राः तथा ३ तृतीयलिङ्गीयाः व्यक्तयः सन्ति। छात्राणां अपेक्षया छात्राणां सङ्ख्या अधिका अस्ति, एतत् दर्शयति यत् प्रदेशे बालिकाशिक्षायाः संवर्धनाय कृताः प्रयासाः सकारात्मकाः ।
---------------
Hindusthan Samachar / Dheeraj Maithani