Enter your Email Address to subscribe to our newsletters

नवदेहली, १२ जूनमासः (हि.स.)। केन्द्रीय-गृह-सहकारिता-मन्त्री अमित-शाहः पूर्व-अन्ताराष्ट्रिय-लक्ष्यभेदकस्य प्रशिक्षकस्य च जसपाल-राणा-इत्यस्य निधनम् अधिश्रित्य शोकं व्यक्तवान्। सः अवदत् यत् जसपाल-राणा-इत्यनेन स्वस्य क्रीडा-जीवने प्रशिक्षकरूपेण च देशस्य लक्ष्यभेद-क्रीडाक्षेत्रं नवीन-उच्चतासु स्थापितम्, तस्य निधनं च राष्ट्रस्य कृते अपूरणीया क्षतिः अस्ति।
अमित-शाहः शुक्रवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इति पटले प्रकाशिते स्व-शोक-सन्देशे उक्तवान् यत् जसपाल-राणाया: निधनस्य समाचारः अत्यन्तं दुःखदः अस्ति। राणेन देशस्य कृते अन्ताराष्ट्रिय-स्तरे अनेकानि सम्मानानि अर्जितानि तथा स्व-प्रतिभया समर्पणेन च भारतीय-लक्ष्यभेदक्रीडां वैश्विक-परिचयं प्राप्तम् अकरोत्।
गृहमन्त्री उक्तवान् यत् क्रीडकत्वेन जसपाल-राणा भारतस्य गौरवं वर्धितवान्, प्रशिक्षकरूपेण च युवा-क्रीडकान् प्रशिक्ष्य राष्ट्रस्य नववंशस्य उन्नयनार्थं महत्त्वपूर्णं कार्यम् अकरोत्। तस्य प्रयासैः भारतं लक्ष्यभेद-क्षेत्रे सुदृढ-प्रतिस्पर्धी-शक्तिरूपेण स्थापयितुं महती भूमिका निर्वुढा।
स्व-सन्देशे अमित-शाहः लिखितवान्— “क्रीडकस्य जसपाल-राणा-इत्यस्य निधनात् अहम् अत्यन्तं दुःखितः अस्मि। देशस्य कृते अन्ताराष्ट्रिय-सम्मानान् जित्वा तथा प्रशिक्षकरूपेण युवा-लक्ष्यभेदकान् शिक्षयित्वा तेन लक्ष्यभेद-क्षेत्रे भारतस्य अजेय-शक्तेः स्थापनाय सम्पूर्णं जीवनं समर्पितम्। राणस्य निधनं राष्ट्रस्य कृते अपूरणीया क्षतिः अस्ति।”
सः शोक-सन्तप्त-परिवारस्य तथा जसपाल-राणाया: लक्षशः प्रशंसकान् प्रति संवेदनाः व्यक्तवान् तथा दिवङ्गतात्मनः शान्त्यर्थं प्रार्थनाम् अकरोत्।
Hindusthan Samachar / Divya Ranjan