ग्रीष्मकालीन-क्रीडा-प्रशिक्षण-शिविरस्य समापनम्, ११६० क्रीडकैः विशेष-प्रशिक्षणं प्राप्तम्
धमतरीनगरम्, १२ जूनमासः (हि.स.)। जनपदे क्रीडा-संस्कृतेः सुदृढीकरणाय, यूनां प्रतिभायाः परिष्काराय तथा तान् राष्ट्रिय-अन्ताराष्ट्रिय-स्तरीय-प्रतियोगिताभ्यः सज्जीकर्तुं जनपद-प्रशासनेन क्रीडा-युवा-कल्याण-विभागेन च संयुक्ततया आयोजितस्य त्रिंशद्दिवसीय-ग्र
खिलाड़ियों को पुरस्कार देते हुए अतिथिगण।


कार्यक्रम के दौरान पुरस्कार लेकर खड़े हुए  खिलाड़ी।


कराते का प्रदर्शन करते हुए बच्चे।


धमतरीनगरम्, १२ जूनमासः (हि.स.)। जनपदे क्रीडा-संस्कृतेः सुदृढीकरणाय, यूनां प्रतिभायाः परिष्काराय तथा तान् राष्ट्रिय-अन्ताराष्ट्रिय-स्तरीय-प्रतियोगिताभ्यः सज्जीकर्तुं जनपद-प्रशासनेन क्रीडा-युवा-कल्याण-विभागेन च संयुक्ततया आयोजितस्य त्रिंशद्दिवसीय-ग्रीष्मकालीन-क्रीडा-प्रशिक्षण-शिविरस्य समापनं शुक्रवासरे नगर-निगमस्य आन्तरिक-क्रीडाङ्गणे सम्पन्नम्। नवम-मे-दिनाङ्कात् अष्टम-जून-दिनाङ्क-पर्यन्तं सञ्चालिते अस्मिन् शिविरे जनपदस्य विभिन्न-क्षेत्रेभ्यः आगताः ११६० क्रीडकाः उत्साहपूर्वकं सहभागं कृत्वा विविध-क्रीडा-विधासु प्रशिक्षणं प्राप्तवन्तः।

समापन-समारोहे क्रीडकैः सांस्कृतिक-प्रस्तुतयः, योग-प्रदर्शनानि तथा क्रीडा-गतिविधीनां प्रदर्शनं कृत्वा उपस्थित-जनसमूहस्य मनांसि आकृष्टानि। विधायकः ओंकार-साहू उक्तवान् यत् क्रीडा केवलं प्रतियोगितायाः माध्यमं नास्ति, अपितु व्यक्तित्व-विकासस्य, अनुशासनस्य, नेतृत्व-क्षमतायाः तथा स्वस्थ-जीवनशैल्याः आधारशिला अस्ति। एकमासपर्यन्तं सञ्चालिते अस्मिन् शिविरे बालकानां यूनां च विशाल-सहभागिता जनपदे क्रीडासु वर्धमान-जागरूकतायाः प्रमाणम् अस्ति। सः भारतीय-सेनायां चयनितान् जनपदस्य ६३ अग्निवीर-सैनिकान् अभिनन्दितवान् तथा तान् यूनां कृते प्रेरणास्रोतांसि इति उक्तवान्।

सिहावा-क्षेत्रस्य विधायकः अम्बिका-मरकाम: अवदत् यत् एतत् शिविरं बालकानां यूनां च व्यक्तित्व-विकासस्य दिशि दूरदर्शी प्रशंसनीय: च प्रयास: अस्ति। क्रीडाः न केवलं शारीरिक-क्षमतां वर्धयन्ति, अपितु अनुशासनम्, आत्मविश्वासम्, नेतृत्व-क्षमताम्, संघर्षशीलतां तथा दल-भावनाम् अपि विकसयन्ति। ग्रामीण-वनाञ्चल-क्षेत्राणां प्रतिभाशालिनः क्रीडकाः एतादृशैः शिविरैः स्वप्रतिभां परिष्कर्तुं उत्कृष्टम् अवसरं प्राप्नुवन्ति। सा क्रीडकान् नियमित-अभ्यासेन दृढ-सङ्कल्पेन च अग्रे गन्तुं तथा राज्य-राष्ट्रिय-अन्ताराष्ट्रिय-स्तरेषु जनपदस्य नाम प्रकाशयितुम् आहूतवती।

महापौरः रामू-रोहरा अवदत् यत् जनपदे क्रीडा-गतिविधीनां विस्ताराय तथा यूनां कृते उत्तमान् अवसरान् उपलब्धं कर्तुं निरन्तरं सकारात्मक-कार्याणि क्रियमाणानि सन्ति, येषां उत्साहजनकाः परिणामाः दृश्यन्ते। सः अवदत् यत् युनः एव राष्ट्रस्य भविष्य-निर्मातारः सन्ति, तथा क्रीडाः तान् स्वस्थ-अनुशासित-आत्मविश्वासयुक्त-नागरिकान् भवितुं प्रेरयन्ति। भारतीय-सेनायां चितवान् अग्निवीर-जवानान् अभिनन्द्य सः उक्तवान् यत् तेषां चयनं जनपदस्य यूनां कृते प्रेरणायाः स्रोतः अस्ति।

जनपदाधीशः अबिनाश-मिश्रः अवदत् यत् यूनां ऊर्जायाः सकारात्मक-दिशि मार्गदर्शनं जनपद-प्रशासनस्य प्राथमिकता अस्ति। क्रीडाः शारीरिक-मानसिक-विकासेन सह अनुशासनस्य, आत्मविश्वासस्य तथा दल-भावनायाः निर्माणं कुर्वन्ति। सः सूचितवान् यत् जनपदस्य दूरवर्ती-वनाञ्चल-क्षेत्राणां प्रतिभाशालिनः क्रीडकान् अवसरं प्रदातुं विभिन्न-विकासखण्डेषु प्रशिक्षण-केन्द्राणि स्थापितानि, येन अधिकाधिकाः युवानः लाभान्विताः अभवन्।

उल्लेखनीयम् अस्ति यत् जनपदे ३६ क्रीडा-प्रशिक्षण-केन्द्राणि सञ्चालितानि, यत्र क्रीडकानां कृते रग्बी, वॉलीबॉल, फुटबॉल, बास्केटबॉल, मुष्टियुद्धम्, हैण्डबॉल, योगः, कुडो, चतुरङ्गः, बैडमिण्टन, गतका, टेबल-टेनिस, ताइक्वाण्डो तथा नेटबॉल-इत्यादीनां आधुनिक-पारम्परिक-क्रीडानां प्रशिक्षणं विशेषज्ञ-प्रशिक्षकैः राष्ट्रिय-क्रीडा-संस्थानस्य प्रशिक्षकैश्च प्रदत्तम्। प्रशिक्षण-अवधौ क्रीडकाणां कृते चिकित्सोपकरण-सञ्चिका, लेखन-सामग्री तथा शुष्क-पौष्टिक-आहारः अपि उपलब्धः कृतः।

प्रशिक्षण-समाप्तौ सर्वेभ्यः सहभागिभ्यः प्रशस्ति-पत्राणि प्रदत्तानि तथा प्रत्येकं केन्द्रस्य उत्कृष्ट-प्रदर्शनकर्तृभ्यः दश क्रीडकेभ्यः सम्मानं प्रदत्तम्। प्रशिक्षकाः अपि स्मृति-चिह्नैः सम्मानिताः।

समापन-समारोहे भारतीय-सेनायाः कृते चयनितानां ६३ अग्निवीर-सैनिकानां विशेष-सम्मानम् अपि कृतम्, येषां उपस्थित-जनसमुदायेन उत्साहवर्धनं कृतम्।

Hindusthan Samachar / Divya Ranjan