Enter your Email Address to subscribe to our newsletters

दिल्ली, १२ जूनमास: (हि.स.)। भारतीयजनतापक्षेण हरियाणा-सर्वकारेण अष्टम-कक्षायाः इतिहास-पाठ्यक्रमे सिक्ख-गुरूणां जीवनं, योगदानं तथा तेषां शिक्षाः समावेशितुं कृतस्य निर्णयस्य स्वागतं कृतम्। भाजपापक्षेण उक्तं यत् एषः निर्णयः पक्ष-वर्यस्य तथा प्रधानमन्त्री नरेन्द्र-मोदी-वर्यस्य सिख-परम्परां प्रति प्रतिबद्धतायाः प्रमाणम् अस्ति।
भाजपस्य राष्ट्रिय-महासचिवः तरुण-चुघः शुक्रवासरे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् यत्र काङ्ग्रेस-पक्षेन गुरूणां इतिहासः उपेक्षितः कृतः, तत्र भाजपया वीर-बाल-दिवसः, गुरु-तेग-बहादुर-साहिबस्य ३५०तम-शहीदी-स्मरणम् तथा अन्य-कार्यक्रमाः आयोज्य सिख-इतिहासः राष्ट्रिय-चेतनया सह संयोजितः।
चुघः काङ्ग्रेस-पक्षस्य आलोचनां कुर्वन् अवदत् यत् १९८४ तम-वर्षस्य सिक्ख-नरसंहारं देशः कदापि विस्मरिष्यति न। मतदाता-सूचीं दृष्ट्वा सिक्ख-जनाः चिन्हित्वा हताः, गुरुद्वाराणि दग्धानि, ५२ नगराणि श्मशानवत् कृतानि। भोपाल-गैस-दुर्घटनातः दन्तेवाड़ा-बलिदानिन: यावत् काङ्ग्रेसस्य द्वैध-नीतिः स्पष्टा अस्ति। काङ्ग्रेसस्य “हिमालय-भ्रमाः” इति सूची अतीव दीर्घा अस्ति इति सः उक्तवान्।
अग्रे सः अवदत् यत् जनाः मिथ्या-राजनीतिं, भ्रम-प्रचारं तथा अश्रु-राजनीतिं पुनः पुनः अस्वीकृतवन्तः। “एष: सूप: अधुना न पच्यते” इति व्यङ्ग्येन उक्त्वा सः काङ्ग्रेस-पक्षं प्रति कटाक्षं कृतवान्।
तृणमूल-काङ्ग्रेस-पक्षं प्रति अपि सः टिप्पणीं कुर्वन् अवदत् यत् यः पक्षः पश्चिम-बङ्गालं लूट-तुष्टीकरण-नीत्याः केन्द्रं कृतवान्, तस्य नेतारः अधुना जनैः सत्ता-विच्युताः भूत्वा स्वदोषभारात् पतनं कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan