Enter your Email Address to subscribe to our newsletters

अगरतला, 12 जूनमासः (हि.स.)। त्रिपुरायाः मुख्यमन्त्री प्रो डॉ माणिक साहा अवदत् यत् गत एकवर्षे त्रिपुरायै ३० सहस्रकोटिरूप्यकाधिकाः निवेशप्रस्तावाः प्राप्ताः सन्ति तथा ८ सहस्रकोटिरूप्यकाधिकाः परियोजनाः पूर्वमेव कार्यान्विताः जाताः सन्ति।
नीतिआयोगस्य गवर्निङ्ग काउन्सिल उपवेशनं सम्बोधयन् डॉ साहा अवदत् यत् राज्येन गतवर्षेषु पर्याप्तः आर्थिकविकासः अनुभूतः अस्ति, यस्मिन् गत षड्वर्षेषु राज्यस्य स्थूलराज्यीयोत्पादस्य द्विगुणीकरणम् अपि अन्तर्भवति। सः एतदपि अवदत् यत् त्रिपुरा भारतस्य तृतीयं पूर्णसाक्षरं राज्यं अभवत्।
मुख्यमन्त्री अवदत् यत् भारती एयरटेल सहिताः बृहद् कम्पनीः राज्ये सामरिकसुविधाः निर्माति, यस्मिन् पूर्वभारतस्य सेवायै अगरतलानगरे दत्तांशकेन्द्रम् अपि अन्तर्भवति।
महिलानां युवानां च सशक्तीकरणस्य प्रयासान् वर्णयन् साहा अवदत् यत् अधुना राज्यव्यापिरूपेण ५५,६७६ स्वसहायतासमूहैः सह प्रायः ४.९६ लक्षाः ग्रामीणमहिलाः सम्बद्धाः सन्ति। सः अग्रे अवदत् यत् समृद्धि अभियानं महिलानां स्वसहायतासमूहानां उद्योगानां च कृते ऋणप्राप्तिसुविधां वर्धितवती अस्ति तथा स्वसहायतासमूहाधारितानां लघुउद्योगानां सूक्ष्मलघुमध्यमउद्योगक्षेत्रे संयोजनस्य प्रयासः क्रियते।
मुख्यमन्त्री एतदपि अवदत् यत् त्रिपुरया राज्य मन्त्रिमण्डलात् आरभ्य ग्रामपञ्चायतपर्यन्तं सर्वेषु प्रशासनिकस्तरेषु पूर्णतया अङ्कीयीकरणं तथा पत्ररहितकार्यव्यवस्था प्राप्ता अस्ति।
सर्वकारस्य दीर्घकालिकविकासमार्गचित्रस्य विषये विवरणं दत्त्वा सः अवदत् यत् राज्येन मिशन २०४७ स्वीकृतम् अस्ति। अस्य उद्देश्यः सर्वेभ्यः नागरिकेभ्यः समावेशी सुरक्षितः समृद्धः स्वस्थः च भविष्यकालः सुनिश्चितः कर्तुम् अस्ति।
मुख्यमन्त्री स्वास्थ्यशिक्षाक्षेत्रयोः अभ्युदयम् अपि विशेषरूपेण उल्लिख्य अवदत् यत् गतकेषु वर्षेषु राज्ये एमबीबीएस आसनसंख्या २२५ तः वर्धमानत्वेन ५५० पर्यन्तं तथा स्नातकोत्तरचिकित्साआसनसंख्या ८५ तः वर्धमानत्वेन १९६ पर्यन्तं प्राप्ता अस्ति।
राज्ये पर्यटकानां आगमनस्य आर्थिकगतिविधीनां च संवर्धनस्य प्रयासेषु सः पर्यटनक्षेत्रस्य अभ्युदयम् अपि विशेषरूपेण उल्लिखितवान्, यस्मिन् त्रिपुरासुन्दरीमन्दिर पर्यटनपरिपथस्य बौद्धपरिपथस्य च विकासः अन्तर्भवति।
Hindusthan Samachar / Dheeraj Maithani