केंद्रीय मंत्री गिरिराज सिंहः अद्यारभ्य द्विदिवसीये छत्तीसगढ़ प्रवासे
रायपुरम् 12 जूनमासः (हि.स.)। केन्द्रीय वस्त्र मन्त्री गिरिराज सिंहः अद्य शुक्रवारदिनात् द्विदिवसीयप्रवासाय छत्तीसगढं प्राप्नोति। भारतीयजनतापक्षस्य प्रदेशमहामन्त्री अखिलेश सोनी एतां सूचनां दत्तवान्। सः अत्र जनसम्पर्ककार्यक्रमैः सह विकसितभारतसङ्कल्प
केंद्रीय वस्त्र मंत्री गिरिराज सिंह


रायपुरम् 12 जूनमासः (हि.स.)। केन्द्रीय वस्त्र मन्त्री गिरिराज सिंहः अद्य शुक्रवारदिनात् द्विदिवसीयप्रवासाय छत्तीसगढं प्राप्नोति। भारतीयजनतापक्षस्य प्रदेशमहामन्त्री अखिलेश सोनी एतां सूचनां दत्तवान्। सः अत्र जनसम्पर्ककार्यक्रमैः सह विकसितभारतसङ्कल्पसम्मेलने, राज्यीयक्षेत्रीयवस्त्राधिकारिभिः सह उपवेशने च सहभागित्वं करिष्यति। केन्द्रीयमन्त्री सिंहः अद्य मध्याह्ने द्विवादने राजधानीं प्राप्स्यति। अपराह्णे त्रिवादनपञ्चदशमिनिटसमये सः इट्सा चिकित्सालये (सड्डू) विशेषजनसम्पर्ककार्यक्रमे सम्मिलितः भविष्यति। इतः हॉली हाट्स विद्यालयं (बैरन बाजार) गत्वा सायं पञ्चवादनत्रिंशन्मिनिटसमये विमतारा भवने (शान्तिनगर) आयोजिते विकसितभारतसङ्कल्पसम्मेलने सहभागित्वं करिष्यति। रात्रौ सप्तवादनत्रिंशन्मिनिटसमये हस्तकरघा, हस्तशिल्प, रेश्म तथा राज्यीयक्षेत्रीयवस्त्राधिकारिभिः सह उपवेशनं करिष्यति।

केन्द्रीयमन्त्री अनन्तरदिने १३ जून दिनाङ्के प्रातः अष्टवादनपञ्चचत्वारिंशन्मिनिटसमये कलेक्ट्रेटपरिसरस्थिते बाबासाहब अम्बेडकर चौके स्वच्छताऽभियानकार्यक्रमे सम्मिलितः भविष्यति। ततः परं नववादनत्रिंशन्निमेषसमये खालसा विद्यालयस्य पुरतः ऑक्सीजोन उद्याने वृक्षारोपणकार्यक्रमे भागं गृह्णीयात्। दशवादनपञ्चदशमिनिटसमये सदर बाजारस्य समीपे बुढ़ातालाबं प्राप्य विशेषजनसम्पर्ककार्यक्रमे सहभागित्वं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani