मुख्यमंत्री योगी नोएडायै 45 इलेक्ट्रिक बसयानानि प्रतिष्ठापितवान्
लखनऊ, 12 जूनमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे स्वकीयात् शासकीयात् आवासात् पञ्च कालिदास मार्गात् गौतमबुद्धनगर जनपदस्य नोएडा, ग्रेटर नोएडा तथा यमुना प्राधिकरणक्षेत्रेषु संयुक्तरूपेण जेवर विमानपत्तनपर्यन्तं सञ्चालित
इलेक्ट्रिक बसों को हरी दिखाते मुख्यमंत्री योगी व अन्य मंत्री


लखनऊ, 12 जूनमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे स्वकीयात् शासकीयात् आवासात् पञ्च कालिदास मार्गात् गौतमबुद्धनगर जनपदस्य नोएडा, ग्रेटर नोएडा तथा यमुना प्राधिकरणक्षेत्रेषु संयुक्तरूपेण जेवर विमानपत्तनपर्यन्तं सञ्चालितव्याः उत्तर प्रदेश राज्य सडक परिवहन निगमस्य पञ्चचत्वारिंशत् वैद्युतबसयानानि हरितध्वजं प्रदर्श्य प्रस्थितवान्। मुख्यमन्त्री दृश्यश्रव्यसम्मेलनस्य माध्यमेन नोएडा वैद्युतबसयानागारस्य शुभारम्भं कृतवान्।

अस्मिन् अवसरे मुख्यमन्त्री योगी उक्तवान् यत् गौतमबुद्धनगर जनपदस्य कृते अद्य अत्यन्तं महत्त्वपूर्णः दिवसः अस्ति। एकस्मिन् समये अस्मिन् जनपदे नोएडा, ग्रेटर नोएडा तथा यमुना प्राधिकरणस्य तत्त्वावधानेन उत्तर प्रदेश राज्य परिवहन निगमेन पञ्चचत्वारिंशत् वैद्युतबसयानानां सञ्चालनं प्रारभ्यते। प्रथमं अहं गौतमबुद्धनगर जनपदवासिभ्यः तत्रत्येभ्यः जनप्रतिनिधिभ्यः च अभिनन्दनं ददामि।

वयं सर्वे जानामः यत् प्रधानमन्त्री मोदी सम्पूर्णस्य देशस्य कृते हरितगतिशीलता तथा धारणीयविकासस्य विषये एकं दृष्टिकोणं प्रदत्तवान्। प्रधानमन्त्रीणः एषः दृष्टिकोणः तासां वैश्विकपरिस्थितेः समक्षीकरणं कर्तुं अस्ति याः ज्ञाताज्ञातरूपेण भौतिकविकासस्य लक्ष्यानि प्राप्तुं विश्वेन स्वयमेव उत्पादिताः सन्ति अथवा स्वकीयवर्चस्वस्य स्थापनार्थं विश्वे युद्धानि आरोपितानि सन्ति। अद्य तस्य मूल्यं सम्पूर्णा मानवता वहति।

मुख्यमन्त्री योगी उक्तवान् यत् वैश्विकतापवृद्धिः, जलवायुपरिवर्तनम्, एतानि सर्वाणि तथा पश्चिम एशियाक्षेत्रे वर्तमानः गतिरोधः अस्माकं समक्षं महापरिस्थितयः सन्ति। एतेषां कारणात् वायुप्रदूषणस्य भीषणा समस्या, अतिवृष्टिः, अनावृष्टिः, ओलावृष्टिः च सम्पूर्णेन विश्वेन अनुभूयते। अतः एतासां सर्वासां विषयाणां ध्यानं कृत्वा प्रधानमन्त्री मोदी इत्यस्य दृष्टिकोणं भूमितले स्थापयितुं यदा पञ्चदश जूनतः भारतस्य सर्वात् विशालस्य विमानपत्तनस्य सञ्चालनकार्यं प्रारम्भं भविष्यति तदा नोएडा अन्ताराष्ट्रिय विमानपत्तनस्य सुचारुवायुसेवायाः दृष्ट्या आगच्छतां गच्छतां यात्रिणां सुविधां मनसि निधाय शून्यकार्बनलक्ष्यस्य प्राप्त्यर्थं तिस्रः प्राधिकरणसंस्थाः मिलित्वा एतत् प्रयासं कृतवन्त्यः।

अस्याः सेवायाः शुभारम्भार्थं तिसृभ्यः प्राधिकरणसंस्थाभ्यः सह परिवहन निगमाय अहं हृदयतः धन्यवादं ददामि। मुख्यमन्त्री परिवहनमन्त्रिणं प्रति उक्तवान् यत् सर्वेषां ग्रामाणां कृते उत्तमपरिवहनव्यवस्थां सुनिश्चितुं आवश्यकानि पदानि गृह्यन्ताम्। तेषु ग्रामेषु युवानः प्रेर्यन्ताम्। अनुमतिपत्रव्यवस्था क्रियताम् यथा ते स्वयमेव स्वीयं बसयानं सञ्चालयेयुः। अनेन तेषां रोजगारः भविष्यति तथा च उत्तमा परिवहनव्यवस्था अपि उपलब्धा भविष्यति। अस्य कृते परिश्रमः आवश्यकः भविष्यति।

परिवहनमन्त्री दयाशंकर सिंह उक्तवान् यत् पूर्वं केवलं पञ्चदश जनपदेषु एव वैद्युतबसयानानां सञ्चालनं क्रियते स्म। अद्य पञ्चचत्वारिंशत् जनपदेषु एषा सुविधा प्रदीयते। आगामिषु दिवसेषु प्रदेशस्य सर्वेषु जनपदेषु वैद्युतबसयानानि सञ्चालितानि भविष्यन्ति। वैद्युत्बसयानानां सञ्चालनं अत्यन्तं अल्पव्यययुक्तं भवति। तेन उक्तं यत् डीजल बसयानेषु प्रतिमासं षट् लक्ष रूप्यकाणां व्ययः भवति। वैद्युतबसयानेषु केवलं पञ्चाशत् सहस्र रूप्यकाणां प्रतिमासव्ययः भवति।

अस्मिन् अवसरे तेन सह प्रदेशसर्वकारस्य वित्त तथा संसदीयकार्य मन्त्री सुरेश खन्ना, औद्योगिकविकास मन्त्री नन्द गोपाल गुप्त नन्दी, परिवहनमन्त्री दयाशंकर सिंह, मुख्यमन्त्रिणः परामर्शदाता अवनीश अवस्थी तथा अन्ये नेतारः शासनस्य अधिकारिणः च उपस्थिताः आसन्।-------------------------

Hindusthan Samachar / Dheeraj Maithani