प्रधानमंत्रिणो मोदिनो दूरदर्शीप्रयोजनकारणेन वैश्विक ऊर्जा संकटेऽपि दृढ़तया उत्थितं भारतम् : योगी आदित्यनाथः
—मुख्यमंत्री जनकल्याण शिविरस्य, स्ट्रीट वेंडर इत्येषामथ च विभिन्नानां कल्याणकारीयोजनानां लाभार्थिभ्यः स्वीकृतिपत्रं दत्वा लाभांवितः कृतः —मुख्यमंत्रिणो हस्ताभ्यां जनकल्याणकारी योजनाभ्यो लाभांवितानां लाभार्थिनां मुखानि प्रफुल्लितानि प्रसन्नतया वा
कार्यक्रम में मुख्यमंत्री


—मुख्यमंत्री जनकल्याण शिविरस्य, स्ट्रीट वेंडर इत्येषामथ च विभिन्नानां कल्याणकारीयोजनानां लाभार्थिभ्यः स्वीकृतिपत्रं दत्वा लाभांवितः कृतः

—मुख्यमंत्रिणो हस्ताभ्यां जनकल्याणकारी योजनाभ्यो लाभांवितानां लाभार्थिनां मुखानि प्रफुल्लितानि प्रसन्नतया

वाराणसी, 12 जूनमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरस्य सायंकाले अत्र केन्द्र सरकारस्य १२ वर्षीय कार्यकालस्य पूर्णतायाः अवसरे विभिन्नानां शासकीययोजनानां लाभार्थिषु स्वीकृतिपत्राणि प्रमाणपत्राणि च वितरितवान्।

चौकाघाटस्थिते गिरजादेवी सांस्कृतिक संकुल सभागारे आयोजिते कार्यक्रमे मुख्यमन्त्री विभिन्नविभागैः स्थापितानां प्रदर्शनीस्थलानाम् अवलोकनम् अपि कृतवान्। एतेषां स्थलानां माध्यमेन विभागैः स्वयोजनानां उपलब्धीनां च सूचना प्रदत्ता।

अस्मिन् अवसरे मुख्यमन्त्री सभागारे उपस्थितान् जनान् सम्बोध्य उक्तवान् यत् अद्यतः १२ वर्षपूर्वं नवीनभारतस्य नवीननेतृत्वस्य कृते देशस्य प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य काश्याः सांसदत्वेन चयनं कृत्वा प्रत्येकः काशीवासी स्वं गौरवान्वितं मन्यते। काश्याः नाम केवलं प्रदेशे एव न अपितु देशे विश्वे च प्रतिध्वनितं श्रूयते।

मुख्यमन्त्री उक्तवान् यदा सम्पूर्णः देशः नरेन्द्र मोदी इत्यस्य निर्वाचितप्रधानमन्त्रिरूपेण नवीन अभिलेखैः सह उल्लासस्य उत्साहस्य च वातावरणे उत्सवं आचरति तथा सर्वे उत्साहिताः सन्ति तदा मोदी इत्यनेन सह काशीवासिनाम् नाम अपि सम्बध्यते। सम्पूर्णे विश्वे यत्र कुत्रापि कश्चन राष्ट्राध्यक्षः अस्ति सः मोदी इत्यस्य एतस्य द्वादशवर्षीय कार्यकालं पश्यति भारतस्य तुलना च करोति तदा सः मोदीस्य प्रशंसां करोति एव अपितु देशस्य प्रदेशस्य सर्वेषां काशीवासिनां च प्रशंसां करोति।

मुख्यमन्त्री २०१४ वर्षात् पूर्वस्य भारतस्य उल्लेखं कृत्वा उक्तवान् यत् स्मरत तस्मिन् काले भ्रष्टाचारः सर्वत्र अविश्वासस्य वातावरणम् देशस्य अन्तः बाह्यसुरक्षयोः उपरि मण्डमानः संकटः च आसीत्। किन्तु प्रधानमन्त्री नरेन्द्र मोदीस्य नेतृत्वे भारतम् अन्यप्रकारस्य अस्ति। पूर्वम् अन्नदाता आत्महत्यां कर्तुं बाध्यः आसीत्। युवजनस्य प्रतिभायाः लाभः प्रदेशस्य देशस्य च विकासे विनियोजनीयः आसीत्। पूर्वसरकारस्य नीतिकारणेन शासनस्य दुष्टाभिप्रायकारणेन युवजनः हताशः निराशः च आसीत्। तस्य कृते न रोजगारः आसीत् न कार्यावसरः आसीत् न च कश्चन व्यवसायः आसीत्। प्रत्येकयोजना कार्यान्वयनात् पूर्वमेव भ्रष्टाचारस्य भक्षिता भवति स्म।

मुख्यमन्त्री पूर्वसरकाराणां कार्याणाम् उल्लेखं कृत्वा उक्तवान् यत् पूर्वम् एकः प्रधानमन्त्री आसीत् यः कथयति स्म यत् अहं किम् करोमि अहं १०० रूप्यकाणि प्रेषयामि किन्तु अधः केवलं १५ रूप्यकाणि एव प्राप्नुवन्ति। अद्य प्रधानमन्त्री नरेन्द्र मोदी कथयति यत् अहं १०० रूप्यकाणि प्रेषयामि तथा १०० रूप्यकाणि एव प्रत्यक्षरूपेण दरिद्रव्यक्तेः वित्तकोषे प्राप्नुवन्ति।

मुख्यमन्त्री उक्तवान् यत् कः चिन्तयेत् यत् देशे जनधन लेखस्य नाम्ना प्रत्येकस्य दरिद्रस्य वित्तसंस्थायां लेखः उद्घाटितः भविष्यति। यदा लेखाः उद्घाटिताः तदा कांग्रेस समाजवादी पार्टी च उक्तवन्तौ यत् जनाः मूर्खीकृताः। किन्तु यदा केन्द्रस्य मोदी सरकारः शासकीयकार्यालयेभ्यः प्रदेया सहायता धनराशिः प्रत्यक्षलाभान्तरणस्य माध्यमेन दरिद्रलाभार्थिनां लेखेषु प्रत्यक्षं प्रेषयितुं आरब्धवती तदा तत् कांग्रेस समाजवादी पार्टी इत्येतयोः मुखे प्रहारवत् कार्यम् अकरोत्।

मुख्यमन्त्री योगी आदित्यनाथः काश्यां यातायातबाधायाः चर्चां कुर्वन् उक्तवान् यत् काश्यां अपि यातायातबाधायाः स्थिति आसीत्। अस्मिन् अत्यधिकः सुधारः अभवत्। संवत्सरे १५ तः २० लक्षपर्यन्तं श्रद्धालवः काशीं आगच्छन्ति। रेलयानस्य आधुनिकसुविधा वर्धिता अस्ति। कः चिन्तयेत् यत् वन्दे भारत अमृत भारत नमो भारत इति नामभिः रेलयानानि आगमिष्यन्ति। एतानि सर्वाणि रेलयानानि भारतस्य अन्तः निर्मितानि भविष्यन्ति। कः चिन्तयेत् यत् एतानि रायबरेली नगरे निर्मीयेरन्। अस्माकं रेलस्थानकानि विमानयानस्थानकवत् दृश्यन्ते। २०१४ वर्षात् पूर्वम् एतत् केवलं स्वप्नम् आसीत्। काश्याः घाटाः अतिसुन्दराः जाताः यतः पर्यटकाः तान् पश्यन्तः विस्मिताः भवन्ति।

सः उक्तवान् यत् एषः परिवर्तनः यः भवति तस्य उत्तरदायित्वं युवानां महिलानां सर्वेषां च अस्ति। कन्याभ्यः कन्या सुमंगला योजनायां कन्यायाः जन्मतः आरभ्य विवाहपर्यन्तं व्यवस्था अस्ति।

मुख्यमन्त्री उक्तवान् यत् अद्य ऊर्जायाः वैश्विकसंकटम् उपस्थितम् अस्ति। अमेरिका इति देशः यः विश्वस्य महान् सामरिकशक्तिः अस्ति तत्र मुद्रास्फीतिः प्रायः चतुर्गुणा वर्धिता अस्ति। विश्वस्य देशानां स्थिति दयनीया अस्ति। काश्याः सांसदः देशस्य प्रधानमन्त्री च नरेन्द्र मोदी इत्यस्य कारणेन वैश्विक ऊर्जासंकटे अपि भारतम् दृढतया स्वनागरिकैः सह स्थितम् अस्ति।

सः उक्तवान् यत् रोपवे इति नवीन प्रतिरूपम् अस्ति। यदा तस्य लोकार्पणं भविष्यति तदा काशीवासिनः नवीनानुभवं प्राप्स्यन्ति। कथं तत् सम्पूर्णजीवनस्य परिवर्तनाय सहायकं भविष्यति इति अनुभविष्यन्ति।

अस्मात् पूर्वं प्रदेशस्य स्टाम्प तथा न्यायालय पञ्जीयन शुल्क राज्यमन्त्री स्वतंत्र प्रभार रविन्द्र जायसवालः मुख्यमन्त्रिणे अङ्गवस्त्रं समर्प्य स्वागतं कृतवान्।

अस्मिन् अवसरे प्रदेशस्य स्टाम्प तथा न्यायालय पञ्जीयन शुल्क राज्यमन्त्री स्वतंत्र प्रभार रविन्द्र जायसवालः आयुष राज्यमन्त्री स्वतंत्र प्रभार डॉ दयाशंकर मिश्र दयालु खेल तथा युवा कल्याण राज्यमन्त्री स्वतंत्र प्रभार गिरीश चन्द्र यादवः जिला पञ्चायत अध्यक्ष पूनम मौर्या एमएलसी धर्मेन्द्र राय पूर्वमन्त्री विधायक डॉ नीलकण्ठ तिवारी विधायक सौरभ श्रीवास्तव विधायक डॉ अवधेश सिंह विधायक टी राम विधायक सुनील पटेल क्षेत्रीय अध्यक्ष दिलीप पटेल जिलाध्यक्ष राम सकल पटेल महानगर अध्यक्ष प्रदीप अग्रहरि मण्डलायुक्त एस राजलिंगम जिलाधिकारी सत्येन्द्र कुमार इत्यादयः प्रमुखरूपेण उपस्थिताः आसन्।कार्यक्रमस्य अनन्तरं मुख्यमन्त्री योगी आदित्यनाथः काश्याः कोतवाल कालभैरव तथा देवाधिदेव महादेव श्री काशी विश्वनाथ मन्दिरे विधिवत् दर्शनपूजनं कृतवान्।

Hindusthan Samachar / Dheeraj Maithani