Enter your Email Address to subscribe to our newsletters

विश्व बाल श्रम निषेध दिवसे अकरचायकैर्भिक्षुकैर्बालैर्यात्रा निष्कास्य बाल मजदूरी पिधातुमददात्संदेशम्
वाराणसी, 12 जूनमासः (हि.स.)। विश्व बालश्रम निषेधदिवसस्य अवसरे शुक्रवासरे वाराणसी जनपदे कैंट रेलस्थानके कूडा संग्राहकाः भिक्षां याचमानाः च बालकाः बालश्रमस्य निरोधार्थं जनजागरणम् अकुर्वन्। दिवसस्य अवसरे सामाजिकसंस्थायाः डेयर इत्यस्य पताकायाः अधीनं छावनी कैंट रेलस्थानकस्य प्रथममञ्चस्य बहिः परिसञ्चरणक्षेत्रे जागरूकतायात्रा आयोजिता, यस्मिन् निर्दोषबालकाः हस्तेषु सूचनाफलकानि धृत्वा जनान् बालश्रमस्य निरोधाय प्रत्येकं बालकं शिक्षया संयोजयितुं च प्रार्थितवन्तः।
अस्यां यात्रायां संस्थायाः अनौपचारिकशिक्षाकेन्द्रैः सम्बद्धाः प्रायः शतं बालकाः उत्साहपूर्वकं सहभागं कृतवन्तः। बालकानां घोषैः सन्देशैः च रेलयात्रिणां मार्गगामिनां च ध्यानम् आकर्षितम्। यात्रायां सम्मिलितैः बालकैः सूचनाफलकानि प्रदर्श्य सन्देशः प्रदत्तः यत् यदा बालकानां हस्तेषु पुस्तकानि भविष्यन्ति तदा एव देशस्य भविष्यं प्रकाशमयं भविष्यति। बालश्रमः न, शिक्षा एव प्रत्येकस्य बालकस्य अधिकारः अस्ति। बाल्यकालस्य स्थानं विद्यालये अस्ति न तु श्रमस्य भारस्य अधः।
रेलस्थानकानां नष्टबाल्यजीवनाय नूतनां दिशां प्रददाति डेयर संस्था। संस्थायाः निदेशकः रॉबिनस्य अनुसारं द्विसहस्र दश वर्षात् आरभ्य कार्यरताया एषा संस्था वाराणस्याः कैंट, सिटी, काशी, सारनाथ, बनारस तथा शिवपुर रेलस्थानकानां समीपे निवसतां निर्धनानां निराश्रयाणां कूडा संग्राहकाणां भिक्षां याचमानानां च बालकानां जीवनस्य परिवर्तनाय कार्यं करोति। संस्था केवलं एतेषां बालकानां उद्धारं न करोति, अपितु तान् शिक्षा तथा उत्तमभविष्येन अपि संयोजयति।
अस्याः संस्थायाः सञ्चालितेषु अनौपचारिकशिक्षाकेन्द्रेषु प्रतिदिनं द्विशतपञ्चाशत् त्रिशतपर्यन्तं बालकाः अध्ययनं कुर्वन्ति। एतेषु प्रतिभासम्पन्नान् बालकान् मुख्यधारायाः विद्यालयेषु प्रवेशः प्रदीयते। रेलस्थानकस्य निदेशकः, आरपीएफ तथा जीआरपी अधिकारिणः कार्यक्रमे सहयोगं प्रदाय बालकानाम् उत्साहं वर्धितवन्तः।
ते उक्तवन्तः यत् संस्था प्रत्येकं उत्सवं महत्त्वपूर्णदिवसं च एतैः बालकैः सह आचरति, येन ते स्वं समाजस्य अभिन्नम् अङ्गम् इति अनुभवन्ति। तैः उक्तं यत् अस्य जागरूकताभियानस्य सफलतायां रेलप्रशासनेन अपि महत्त्वपूर्णा भूमिका निर्वहिता।
कार्यक्रमे शिशुगृह अधीक्षिका सिस्टर मंजू सहित संस्थायाः सर्वे कर्मचारिणः अपि सहभागं कृतवन्तः।-----------
Hindusthan Samachar / Dheeraj Maithani