Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ जूनमासः (हि.स.)। केन्द्रीय-गृहमन्त्रिणा तथा सहकारिता-मन्त्रिणा अमित-शाहेन देशे जनसांख्यिकीय-परिवर्तनानां अध्ययनाय गठिताय उच्चस्तरीय-समित्यै सीमावर्ती-जनपदेषु जनसंख्या-परिवर्तनेषु जायमानानां परिवर्तानां विस्तृत-अध्ययनं कर्तुं निर्देशाः प्रदत्ताः।
उच्चस्तरीय-समित्याः शनिवासरे अत्र सम्पन्नायां सभायाम् अमित-शाहेन उक्तं यत् समिति-जनैः स्थिति-आकलनाय सीमावर्ती-प्रदेशाः, महानगराणि तथा औद्योगिक-नगराणि च भ्रमणीयानि।
उल्लेखनीयम् अस्ति यत् केन्द्रीय-सर्वकारेण गत-मासे देशे असामान्य-जनसांख्यिकीय-परिवर्तनानां तथा अवैध-प्रवेशानां अध्ययनाय सेवानिवृत्त-न्यायमूर्तेः प्रकाश-प्रभाकर-नावलेकरस्य अध्यक्षतायां उच्चस्तरीया समिति: गठिता। प्रधानमन्त्री-नरेन्द्रमोदिनः २०२५ तमे वर्षे १५ अगस्त-दिने अस्याः समितेः गठनस्य घोषणा कृता आसीत्। अस्याः उद्देश्यं देशस्य विभिन्न-प्रदेशेषु जनसांख्यिकीय-परिवर्तनानां स्वरूपस्य प्रभावस्य च अध्ययनं कृत्वा शासनाय नीतिगत-विचारान् प्रस्तोतुम् अस्ति।
Hindusthan Samachar / अंशु गुप्ता