असम आबकारी नियमेषु संशोधनं, मदिराविपणीनां दूरतायाः अनुमतिस्थानांतरणस्य च नूतननियमाःप्रवर्तिताः
गुवाहाटी, 13 जूनमासः, (हि.स.)। असम सरकारेण राज्यस्य आबकारी क्षेत्रे व्यापकसुधाराणां दिशि महत्त्वपूर्णं पदक्षेपं कृत्वा असम आबकारी संशोधन नियमावली २०२६ प्रवर्तिता। राज्यपालस्य अनुमोदनानन्तरं निर्गतायाः नवीननियमावल्याः अन्तर्गतं मदिराविक्रयः, विक्र
Liquor


गुवाहाटी, 13 जूनमासः, (हि.स.)।

असम सरकारेण राज्यस्य आबकारी क्षेत्रे व्यापकसुधाराणां दिशि महत्त्वपूर्णं पदक्षेपं कृत्वा असम आबकारी संशोधन नियमावली २०२६ प्रवर्तिता। राज्यपालस्य अनुमोदनानन्तरं निर्गतायाः नवीननियमावल्याः अन्तर्गतं मदिराविक्रयः, विक्रयकेन्द्राणां स्थापना, अनुज्ञापत्रस्थानांतरणं तथा राजस्वसंग्रहणेन सम्बद्धाः बहवः नवीनाः प्रावधानाः प्रवर्तिताः सन्ति। अधिसूचना निर्गमनेन सह एते नियमाः सम्पूर्णे राज्ये प्रभावशीलाः अभवन्।

नवीननियमानुसारं भारतीयनिर्मितविदेशीयमदिरा, बीयर तथा देशीयमदिरायाः स्थूल तथा खुद्र विक्रय बहिर्विक्रय अनुज्ञापत्रधारिभ्यः न्यूनतम सुनिश्चित राजस्व निक्षेपणम् अनिवार्यं भविष्यति। वित्तीयवर्षं चतसृषु त्रैमासिकेषु विभज्य क्रमशः २२, २५, २७ तथा २६ प्रतिशतं राजस्वं संगृहीतं भविष्यति। निर्धारितं राजस्वं न निक्षिप्ते अवशिष्टधनराशौ १० प्रतिशतं दण्डः तथा विलम्बे प्रतिमासं १.५ प्रतिशतं अतिरिक्तं व्याजं दातव्यं भविष्यति।

संशोधितनियमेषु मदिराविक्रयकेन्द्राणां मध्ये न्यूनतमं दूरत्वमपि कठोरतया निर्धारितम् अस्ति। तदनुसारं कामरूप मेट्रो जनपदे द्वयोः खुद्र मदिराविक्रयकेन्द्रयोः मध्ये न्यूनतमं ५०० मीटर दूरी, अन्येषु नगरनिगम, नगरपालिका तथा नगरसमिति क्षेत्रेषु एककिलोमीटर तथा ग्राम्यक्षेत्रेषु द्विकिलोमीटर दूरी अनिवार्या भविष्यति।

खुद्र बहिर्विक्रयकेन्द्रेषु केवलं मुद्रित तथा काप्सूलयुक्त १८० मिलीलीटर अथवा तस्मादधिक धारितायाः शीशीषु एव मदिराविक्रयस्य अनुमति भविष्यति। अपरं बार सहितेषु अन्तर्विक्रय प्रतिष्ठानेषु न्यूनतम ७५० मिलीलीटर परिमाणयुक्तानां शीशीनां प्रयोगः कर्तव्यः भविष्यति। ग्राहकेभ्यः मदिरापानार्थं पेग मापस्य प्रयोगः कर्तुं शक्यते तथा एकः पूर्णः पेग ६० मिलीलीटर इति निर्धारितः अस्ति।

दुकानानां स्थानांतरणसम्बद्धेषु नियमेषु अपि परिवर्तनं कृतम् अस्ति। कस्यापि जनपदस्य अन्तर्गतं नगरनिगमक्षेत्रात् बहिः स्थितं विक्रयकेन्द्रम् आबकारी आयुक्तस्य पूर्वानुमोदनानन्तरं जनपदायुक्तः स्थानांतरणस्य अनुमतिं दातुं शक्नुयात्। नगरनिगमक्षेत्रेषु स्थानांतरणाय राज्यसरकारस्य अनुमोदनम् आवश्यकम् भविष्यति। अधुना ग्राम्यक्षेत्रेभ्यः नगर अथवा नगरपालिका क्षेत्रेषु मदिराविक्रयकेन्द्रस्थानांतरणं कर्तुं न शक्यते, किन्तु नगरीयक्षेत्रेभ्यः ग्राम्यक्षेत्रेषु स्थानांतरणस्य अनुमति भविष्यति।

अन्तर्जनपद स्थानांतरणस्य विषये कामरूप मेट्रोतः अन्येषु जनपदेषु विक्रयकेन्द्रस्थानांतरणं कर्तुं शक्यते, किन्तु अन्येभ्यः जनपदेभ्यः कामरूप मेट्रो क्षेत्रे स्थानांतरणस्य अनुमति न भविष्यति। एतदतिरिक्तं अनुज्ञापत्रप्राप्तेः त्रिवर्षस्य अन्तर्गतं कस्यापि अन्तर्जनपद स्थानांतरणस्य निषेधः भविष्यति।

नियमावल्यां असमस्य पारम्परिकजनजातीयसमुदायैः निर्मितायाः विरासत मदिरायाः अपि संरक्षणं कृतम् अस्ति। तदर्थं सूक्ष्मनिर्माणशालायाः अधिकतम उत्पादनक्षमता प्रतिदिनं १००० लीटर इति निर्धारितम् अस्ति तथा विभिन्नवर्गाणां अनुज्ञापत्रशुल्केषु उल्लेखनीयः न्यूनिकरणं कृतम् अस्ति।

संशोधितनियमेषु असम मेड लिकर इति नवीनः वर्गः अपि योजितः अस्ति। अस्य अल्कोहल क्षमता १७.१२ प्रतिशतं वी वी इति निर्धारितम् अस्ति। अस्य विनिर्माण अनुज्ञापत्र आवेदनशुल्कं एकलक्षं रूप्यकाणि तथा विक्रय अनुज्ञापत्र शुल्कं ५० सहस्रं रूप्यकाणि निश्चितानि सन्ति।

सरकारस्य मतम् अस्ति यत् एतेषां नवीनप्रावधानानां माध्यमेन राज्ये मदिराव्यवसायस्य उत्तमं नियमनम्, शासकीय राजस्वस्य वृद्धिः तथा अनधिकृत अनुज्ञापत्रस्थानांतरणस्य प्रभावी नियन्त्रणं सुनिश्चितं कर्तुं शक्यते।

---------

हिन्दुस्थान समाचार / Dheeraj Maithani