अधुना एथेनॉलतः धाविष्यन्ति वाहनानि, दत्ता शासनतःसहमतिः -गडकरी
एथेनॉल पंपस्थलानां देशे समस्ते विस्तारः, विमान-ईंधनस्य मूल्यं निर्धारितम्।नागपुरम्, 13 जूनमासः (हि.स.)। केन्द्रीय सडक परिवहन तथा राजमार्गमन्त्री नितिन गडकरी शनिवासरे अवदत् यत् देशे हरितऊर्जायाः स्वच्छपरिवहनस्य च दिशि महत्त्वपूर्णं पदं स्थापयित्वा
पत्रकार परिषदेला संबोधित करताना नितीन गडकरी


एथेनॉल पंपस्थलानां देशे समस्ते विस्तारः, विमान-ईंधनस्य मूल्यं निर्धारितम्।नागपुरम्, 13 जूनमासः (हि.स.)।

केन्द्रीय सडक परिवहन तथा राजमार्गमन्त्री नितिन गडकरी शनिवासरे अवदत् यत् देशे हरितऊर्जायाः स्वच्छपरिवहनस्य च दिशि महत्त्वपूर्णं पदं स्थापयित्वा शतप्रतिशत एथेनॉल इत्यस्य वाहनेषु उपयोगाय वैधानिकी अनुमतिः प्रदत्ता अस्ति। तेन उक्तं यत् अस्य सम्बन्धे आवश्यकपत्रिकायां हस्ताक्षराणि कृतानि सन्ति तथा अधिसूचना अपि प्रकाशिताऽभवत्।

नागपुरे आयोजिते कार्यक्रमे गडकरी उक्तवान् यत् सरकारस्य लक्ष्यं देशं पेट्रोल तथा डीजल इत्ययोः निर्भरतायाः विमोचनं कर्तुम् अस्ति। नवीननिर्णयानन्तरं वाहनस्वामिनः स्वेषु वाहनेषु पेट्रोलस्य स्थाने प्रत्यक्षं शतप्रतिशत एथेनॉल इत्यस्य उपयोगं कर्तुं शक्नुवन्ति।

केन्द्रीयमन्त्री उक्तवान् यत् एथेनॉल आधारित इन्धनेन पर्यावरणस्य हानिः अत्यन्तं न्यूनाः भविष्यति तथा उपभोक्तृभ्यः इन्धने अल्पः व्ययः कर्तव्यः भविष्यति। तेन उक्तं यत् अधुना वाहनस्वामिनः इच्छा अस्ति यत् सः स्ववाहने पेट्रोलं पूरयतु अथवा एथेनॉल इति। चतुर्चक्रयान त्रिचक्रयान स्कूटर सहितेषु सर्वेषु वाहनेषु अस्य उपयोगः कर्तुं शक्यते।

एथेनॉलस्य उपलब्धिं सुनिश्चितुं इण्डियन ऑयल कॉर्पोरेशन इत्यनेन देशव्यापि प्रायः ३५० एथेनॉल पम्पाः स्थापितााः सन्ति। सरकारेण अन्याभ्यः सार्वजनिकाभ्यः निजीभ्यश्च तैलकम्पनीभ्यः अपि एथेनॉल पम्पजालस्य विस्तारार्थं अनुरोधः कृतः अस्ति। शीघ्रमेव नवीनाः अनुमतयः प्रदाय अस्य व्यवस्थायाः विस्तारः क्रियिष्यते।

विमाननक्षेत्राय अपि महती राहतिः

अस्मिन् अवसरे गडकरी विमाननक्षेत्रस्य कृते अपि महत्त्वपूर्णां घोषणाम् अकरोत्। तेन उक्तं यत् वायुयान इन्धनस्य एटीएफ मूल्येषु पुनः पुनः भवतः उतारचढावस्य निवारणाय सरकारेण १०००० कोटि रुप्यकाणां विशेष स्थिरीकरणकोषः निर्मितः अस्ति।

तस्य अनुसारेण अस्य व्यवस्थायाः अन्तर्गतं वायुयान इन्धनस्य मूल्यं प्रतिलिटर ११५ रुप्यकाणि निर्धारितम् अस्ति। अनेन विमानसेवाकम्पनीभ्यः सञ्चालनस्य स्थिरता भविष्यति तथा यात्रिभ्यः पुनः पुनः वर्धमानैः वायुयानभाडैः राहतिः प्राप्तुं शक्यते।

निर्णयस्य प्रमुखाः बिन्दवः

शतप्रतिशत एथेनॉल इत्यस्य वैधानिकी मान्यता प्राप्ता। पेट्रोल डीजलयोः निर्भरतां न्यूनीकर्तुं दिशि महत्त्वपूर्णं पदम्। सर्वेषु प्रकारेषु वाहनेषु एथेनॉल उपयोगस्य विकल्पः। देशव्यापि ३५० एथेनॉल पम्पाः स्थापिताः। एटीएफ मूल्यं प्रतिलिटर ११५ रुप्यकाणि निर्धारयितुं घोषणा। विमाननक्षेत्रस्य कृते १०००० कोटि रुप्यकाणां स्थिरीकरणकोषः।

एषः निर्णयः भारतस्य ऊर्जा पर्यावरण परिवहनक्षेत्रेषु महत्त्वपूर्णस्य परिवर्तनस्य संकेतः मन्यते यः भविष्ये स्वच्छायाः मितव्ययिन्याः इन्धनव्यवस्थायाः दिशां निर्धारयितुं शक्नोति।-----------------------------

Hindusthan Samachar / Dheeraj Maithani