इतिहासस्य पृष्ठेषु १४ जूनः — रक्तदानस्य महत्त्वे जनजागरूकतायाः विश्वदिवसः
विश्व-रक्तदान-दिवसः प्रतिवर्षं जूनमासस्य १४ दिनाङ्के आचर्यते। विश्व-स्वास्थ्य-सङ्घटनेन अयं दिवसः रक्तदान-दिवसरूपेण घोषितः। २००४ तमे वर्षे आरब्धस्य अस्य कार्यक्रमस्य उद्देश्यं सुरक्षित-रक्त-उत्पादानां आवश्यकतायाः विषये जनजागरूकतां वर्धयितुं, रक्तदात
इतिहासस्य पृष्ठेषु १४ जूनः — रक्तदानस्य महत्त्वे जनजागरूकतायाः विश्वदिवसः


विश्व-रक्तदान-दिवसः प्रतिवर्षं जूनमासस्य १४ दिनाङ्के आचर्यते। विश्व-स्वास्थ्य-सङ्घटनेन अयं दिवसः रक्तदान-दिवसरूपेण घोषितः। २००४ तमे वर्षे आरब्धस्य अस्य कार्यक्रमस्य उद्देश्यं सुरक्षित-रक्त-उत्पादानां आवश्यकतायाः विषये जनजागरूकतां वर्धयितुं, रक्तदातॄन् सुरक्षित-जीवनरक्षक-रक्तदानाय प्रोत्साहयितुं तथा तान् प्रति कृतज्ञतां प्रकटयितुं च अस्ति।

अन्याः प्रमुखाः घटनाः१९०१ — प्रथमवारं गोल्फ-प्रतियोगितायाः आयोजनम् अभवत्।१९९९ — थाबो-म्बेकी दक्षिण-अफ्रिका-देशस्य राष्ट्रपतिरूपेण निर्वाचितः।२००१ — अन्वेषण-आयोगेन दीपेन्द्रः एव राजपरिवारस्य हन्ता इति प्रतिपादितम्।२००४ — पञ्चशील-सिद्धान्तस्य पञ्चाशद्वर्षीय-जयन्त्याः उपलक्ष्ये बीजिङ्-नगरे अन्ताराष्ट्रिय-सङ्गोष्ठी आयोजिता।२००५ — माइकेल-जैक्सनः बालकैः सह यौन-दुर्व्यवहारसम्बद्धेषु दशसु अभियोगेषु निर्दोषः घोषितः।२००७ — गोबी-मरुस्थले पक्षिरूपिणः विशाल-डायनासोरस्य जीवाश्मानि प्राप्तानि।२००८ — केन्द्रीय-सर्वकारेण पृथक् गोरखालैण्ड-राज्यस्य निर्माणस्य सम्भावना निरस्ता।२००८ — राजस्थानस्य बाँसवाड़ा-जनपदे ९६ मेट्रिक-टन-परिमिता सुवर्ण-खनिः ज्ञाता।२००८ — चीनदेशस्य शाङ्शी-प्रान्ते कोयला-खन्यां विस्फोटे २७ जनाः आहताः।२००८ — नेपालदेशस्य पूर्व-नरेशः ज्ञानेन्द्र-शाहः नारायणहिटी-प्रासादं त्यक्तवान्।

जन्म

१९९६ — निखत-जरीन, भारतीय-महिला-मुष्टियुद्ध-क्रीडिका।१९६७ — कुमार-मङ्गलम्-बिड़ला, भारतीय-उद्योगपतिः।१९६० — शेखर-सुमनः, हिन्दी-चलच्चित्र-अभिनेता।१९५२ — किरण-खेर:, अभिनेत्री तथा सांसदः।१९२२ — के.आसिफ:, विख्यातः चलचित्र-निर्माता-निर्देशकः।१९२० — केदार-पाण्डेयः, बिहार-राज्यस्य पूर्व-मुख्यमन्त्री।१९०५ — हीराबाई-बरोदकर:, भारतीय-शास्त्रीय-सङ्गीत-कलाविदुषी।१८८० — सतीशचन्द्र-दासगुप्तः, भारतीय-राष्ट्रवादी वैज्ञानिकः आविष्कारकश्च।

निधनम्

२०२० — सुशान्तसिंह-राजपूतः, भारतीय-चलच्चित्र-अभिनेता।२०११ — असद-अली-खानः, रुद्रवीणा-वादकः।२००७ — कुर्त्-वाल्डहाइमः, संयुक्त-राष्ट्र-सङ्घस्य चतुर्थः महासचिवः।१९६१ — कार्यमाणिक्कम्-श्रीनिवास-कृष्णन्, विख्यातः भारतीय-भौतिक-वैज्ञानिकः।१९२० — मैक्स-वेबरः, प्रसिद्धः जर्मन-दर्शनशास्त्री इतिहासकारश्च।

महत्त्वपूर्णः दिवसःविश्व-रक्तदान-दिवसः।

Hindusthan Samachar / Divya Ranjan