Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ जूनमास: (हि.स.)। कविः भाषाविद् च प्रो.उदयनारायणसिंहः ‘नचिकेता’ शनिवासरे उक्तवान् यत् मिथिला-समाजेन रंगकर्मिणां उत्साहवर्धनं कर्तव्यम्। तथा च नाट्येषु उत्कृष्ट-प्रदर्शनं कुर्वतां कलाकाराणां प्रोत्साहनाय समाज-स्तरे पुरस्कार-सम्मान-परम्परा प्रारभ्येत इति अपि सः अवदत्।
प्रो. उदयनारायणेन दिल्लीस्थिते राष्ट्रिय-नाट्य-विद्यालये साहित्य-अकादमी-मैथिली-लोक-रंग: इत्यनयोः संयुक्त-तत्त्वावधाने आयोजिते ‘मैथिली-रंगमञ्च-आन्दोलनम्’ इति एकदिवसीय-राष्ट्रिय-परिसंवादे एतत् उक्तम्। अस्मिन् संगोष्ठ्यां देश-विदेशयोः प्रमुख-नाटककाराः, भाषाविदः तथा रंगकर्मिणः मैथिली-रंगमञ्चस्य इतिहासः, अद्यतन-चुनौतयः, भविष्य-दिशा च विषये विचार-विमर्शं कृतवन्तः।
मुख्य-वक्तारूपेण प्रो.उदयनारायणः उक्तवान् यत् स्वतन्त्र-भारते मैथिली-रंगमञ्च-आन्दोलनस्य गौरवमयी निरन्तरा च परम्परा अस्ति। सः अवदत् यत् मैथिलीभाषायां ‘गोरक्ष-विजयः’ तथा ‘धूर्तसमागमः’ इत्यादयः शास्त्रीय-मौलिक-नाटकाः पूर्वमेव विद्यमानाः आसन्। अन्यभाषाणां इव मैथिली-रंगकर्मणः आधुनिक-प्रारम्भः अपि अनुवाद-नाटकेभ्यः अभवत्, परन्तु पश्चात् आन्दोलनं गतिं दातुं विशालरूपेण मौलिक-नाट्यलेखनम् आरब्धम्।
वरिष्ठ-रंगकर्मी प्रदीप-बिहारी उक्तवान् यत् विविध-आन्दोलनानां माध्यमेन अद्य मैथिली-रंगमञ्चस्य परिदृश्यं बहु समृद्धम् अभवत्। अधुना मिथिलायाः नगरेभ्यः ग्रामप्रदेशपर्यन्तं नाटक-प्रदर्शनानि क्रियन्ते। सः समाजम् अपि आह्वानं कृतवान् यत् मिथिला-समाजेन अग्रे आगत्य रंगकर्मिणः प्रोत्साहनीयाः। अभिनय-रंगकर्मणोः सम्बद्धानां कृते विशेष-पुरस्कार-सम्मानयोः व्यवस्था कर्तव्या इति अपि सः उक्तवान्।
परिसंवादस्य प्रथम-सत्रे मैथिली-रंगमञ्चस्य भौगोलिक-ऐतिहासिक-विस्तारस्य विषये चर्चा अभवत्। नमोनारायण-मिश्रः कोलकातायां मैथिली-रंगमञ्चस्य संरक्षणे विकासे च तत्रत्य-संस्थानां रंगकर्मिणां च ऐतिहासिक-योगदानं स्मारितवान्। किसलय-कृष्णः मिथिला-नेपाल-सीमावर्ती-प्रदेशेषु मैथिली-रंगमञ्च-क्रियाकलापानां विषये विस्तृतं शोधपूर्णं आलेखं प्रस्तुतवान्।
पटना-नगरस्य रंग-आन्दोलनस्य विषये वरिष्ठ-अभिनेत्री प्रेमलता-मिश्रा ‘प्रेम’ उक्तवती यत् प्रारम्भे रंगकर्मणि स्त्रीणां न्यूनता आसीत्, किन्तु सामाजिक-जागरणेन अद्य बहुसंख्याः महिला-अभिनेत्र्यः तथा निर्देशिकाः मैथिली-रंगमञ्चं नूतनां दिशां यच्छन्ति।
परिसंवादस्य द्वितीय-सत्रं मैथिली-रंगमञ्चस्य वैश्विक-प्रभावः तथा तस्य सामाजिक-प्रासंगिकता इति विषये केन्द्रितम् आसीत्। युवा-लेखकः अरुणाभ-सौरभः स्व-शोधपत्रे मैथिली-रंगमञ्च-आन्दोलनस्य उपरि वैश्विक-रंगमञ्चस्य प्रभावं तथा आधुनिक-नाट्य-शैलीनां प्रयोगं प्रकाशयामास।
संजीव-सिन्हः दिल्ली-नगरे प्रचलितस्य मैथिली-रंगकर्मणः दर्शक-दृष्ट्या विश्लेषणं कृत्वा उक्तवान् यत् एते नाट्य-प्रदर्शनं सामान्यजनानां उपरि सकारात्मकं प्रभावं जनयन्ति।
सत्रस्य अध्यक्षतां कुर्वन् प्रो.देवशंकर-नवीनः उक्तवान् यत् साहित्यं रंगमञ्चः च केवलं मनोरञ्जनस्य साधनं न, अपितु तयोः मूल-उद्देश्यं समाज-सुधारम् अस्ति। मैथिली-रंगमञ्चेन मिथिलायाः संस्कृतिः गहनतया प्रभाविता अभवत्।
अस्मिन् परिसंवादे दिल्लीतः अन्यत्र च आगताः मैथिली-भाषायाः बहवः लेखकाः, कवयः, आलोचकाः, रंगप्रेमिणः च उपस्थिता आसन्।
Hindusthan Samachar / Divya Ranjan