१५ जूनमासे हिमाचलप्रदेशे आपदा-सतर्कता-ध्वनिः घोषयिष्यते, १५ निमेषेषु सज्जतायाः परीक्षणं भविष्यति
शिमलानगरम्, १३ जूनमासः (हि.स.)। यदि १५ जूनमासस्य प्रातः १०:३० वादने भवतः महाविद्यालये, विश्वविद्यालये अथवा कस्मिंश्चित् शैक्षणिक-संस्थाने अकस्मात् आपदा-सतर्कता-ध्वनिः श्रूयेत, तर्हि उद्वेगस्य आवश्यकता नास्ति। एषः कस्यचित् वास्तविक-आपदायाः संकेतः न,
१५ जूनमासे हिमाचलप्रदेशे आपदा-सतर्कता-ध्वनिः घोषयिष्यते, १५ निमेषेषु सज्जतायाः परीक्षणं भविष्यति


शिमलानगरम्, १३ जूनमासः (हि.स.)। यदि १५ जूनमासस्य प्रातः १०:३० वादने भवतः महाविद्यालये, विश्वविद्यालये अथवा कस्मिंश्चित् शैक्षणिक-संस्थाने अकस्मात् आपदा-सतर्कता-ध्वनिः श्रूयेत, तर्हि उद्वेगस्य आवश्यकता नास्ति। एषः कस्यचित् वास्तविक-आपदायाः संकेतः न, अपितु सम्पूर्णे हिमाचलप्रदेशे आयोज्यमानायाः विशालायाः अभ्यास-आपदा-परिक्षायाः अंशः भविष्यति। अनेन भूकम्पः, मेघ-विस्फोटः तथा वनाग्निः इत्यादिभिः आपदाभिः सह योद्धुं सज्जतायाः परीक्षणं करिष्यते।

हिमाचलप्रदेश-राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य तथा राष्ट्रिय-आपदा-प्रबन्धन-प्राधिकरणस्य संयुक्त-तत्त्वावधाने १५ जूनमासे दशमी राज्यस्तरीया महती अभ्यास-आपदा-परीक्षा आयोज्यते। अस्य प्रदेशस्य सर्वेषां राजकीय-निजी-विश्वविद्यालयानां, महाविद्यालयानां, पुस्तकालयानां तथा अन्येषां शैक्षणिक-संस्थानानां सहभागिता अनिवार्या भविष्यति।

उच्च-शिक्षा-निदेशकेन डॉ.हरीश-कुमारेण निर्गतानां निर्देशानां अनुसारं प्रातः १०:३० वादने संस्थानेषु निष्क्रमण-अभ्यासः आरभ्यते। ततः परं गणना-अभ्यासः क्रियते, येन सर्वे विद्यार्थिन:, अध्यापकाः कर्मकराश्च सुरक्षित-स्थानेषु प्राप्ताः इति सुनिश्चितं भवेत्। सम्पूर्णा प्रक्रिया १५ निमेषानां मध्ये सम्पन्ना कर्तव्या।

निर्देशेषु स्पष्टतया उक्तं यत् अस्मिन् अवसरे किमपि प्रदर्शनात्मकम् अभ्यासं न भविष्यति। अस्य अभ्यासस्य मुख्योद्देश्यम् आपदा-स्थितौ जनानां शीघ्र-प्रतिक्रियायाः, सुरक्षित-निष्क्रमणस्य तथा संस्थानानां सज्जतायाः मूल्याङ्कनं कर्तुम् अस्ति।

अभ्यासकाले सम्पन्नानां सर्वासां गतिविधीनां प्रलेखनं क्रियते तथा तानि विभागेन विकसिते ‘सेफ्टी-एप्’ इत्यस्मिन् उपारोपयितव्यानि भविष्यन्ति। सहैव विद्यार्थिनः कर्मकराश्च आपदा-समये पालनीय- सावधानताः, रक्षणोपायाः तथा त्वरित-प्रतिक्रियायाः विषये जागरूकाः अपि कारयिष्यन्ते।

उल्लेखनीयम् अस्ति यत् हिमाचलप्रदेशः प्राकृतिक-आपदानां दृष्ट्या संवेदनशीलं राज्यं मन्यते। अतः सर्वकारस्य लक्ष्यं यत् भूकम्पे, मेघ-विस्फोटे, वनाग्नौ अथवा अन्यासु आपदासु जनहानिः धनहानिश्च न्यूनतमा भवेत् तथा शैक्षणिक-संस्थानानां आपदा-प्रबन्धन-क्षमता अधिकं सुदृढा क्रियेत। १५ जूनमासस्य एषा महती अभ्यास-आपदा-परीक्षा अस्यै सज्जतायै महत्त्वपूर्णा श्रृंखला इव मन्यते।

Hindusthan Samachar / Divya Ranjan